SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 ॥ सुखावतीव्यूहः ॥ सप्तमस्य' ॥ तबानंद सुवर्णमयानां वृक्षाणां सुवर्णमयानि मूलस्कंधविटपशाखापत्रपुष्पाणि फलानि रूप्यमयाणि।रूप्यमयाणां वृक्षाणां रूयमयाण्येव मूलस्कंधविटपशाखापत्रपुष्पाणि फलानि वैडूर्यमयाणि । वैडूर्यमयाणां वृक्षाणां वैडूर्यमयाणि मूलस्कंधविटपशाखापत्त्रपुष्पाणि फलानि स्फटिकमयानि । स्फटिकमयानां वृक्षाणां स्फटिकमयान्येव मूलस्कंधविटपशाखापत्रपुष्पाणि फलानि च मुसारगत्वमयानि । मुसारगल्वमयानां वृक्षाणां मुसारगल्वमयान्येव मूलस्कंधविटपशाखापत्रपुष्पाणि फलानि च लोहितमुक्तामयानि। लोहितमुक्तामयानां वृक्षाणां लोहितमुक्तामयान्येव मूलस्कंधविटपशाखापत्त्रपुष्पाणि फलानि 'चाश्मगर्भमयाणि।अश्मगर्भमयाणां वृक्षाणामश्मगर्भमयाण्येव मूलस्कंधविटपशाखापत्रपुष्पाणि फलानि च सुवर्णमयानि ॥ केषांचिदानंद वृक्षाणां सुवर्णमयानि मूलानि रूप्यमयाः स्कंधा वैडूर्यमया विटपाः स्फटिकमयाः शाखा मुसारगल्वनयानि पत्त्राणि लोहितमुक्तामयानि पुष्पाण्यश्मगर्भमयाणि फलानि। केषांचिदानंद वृक्षाणां रूप्यमयाणि मूलानि वैडूर्यमयाः स्कंधाः स्फटिकमया विटपा मुसारगल्वमयाः शाखा लोहितमुक्तामयानि पत्राण्यश्मगर्भमयाणि पुष्पाणि सुवर्णमयानि फलानि । केषां 1 Instead of सप्तमस्य C. has संति. ' Deest in A.C. P. For the sake of uniformity it would have been easy to insert ve and throughout, but they have been printed only where some of the MSS. gave them. Deest in A. B. C. From चाश्मगर्भ to फलानि left out in P. • P. has सुवर्णमयानां between वृक्षाणां and मुवर्णमयानि. For Private and Personal Use Only
SR No.020817
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 02
Original Sutra AuthorN/A
AuthorMax Muller, Bunyiu Nanjio
PublisherOxford
Publication Year1883
Total Pages131
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy