________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20
॥ सुखावतीव्यूहः ॥ रूपं नानारत्नवृक्षेभ्यो न संजनयेयुमा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥३९॥ सचेन्मे भगवन्बोधिप्राप्तस्य मम नामधेयं श्रुत्वान्यबुद्धक्षेत्रोपपन्ना बोधिसत्वा इंद्रियबलवैकल्यं गच्छेयुमा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥ __॥४०॥ सचेन्मे भगवन्बोधिप्राप्तस्य तदन्यबुद्धक्षेत्रस्थाने बोधिसत्वा मम नामधेयसहश्रवणान सुविभक्तवती नाम समाधि प्रतिलभेरन्यत्र समाधौ स्थित्वा बोधिसत्वा एकक्षणव्यंतिहारेणाप्रमेयासंख्येयाचिंत्यातुल्यापरिमाणान्बुद्धान्भगवतः पश्यंति स चैषां समाधिरंतरा विप्रणश्येन्मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥ ___॥४१॥ सचेन्मे भगवन्बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु' मम नामधेयं श्रुत्वा तच्छ्रवणसहगतेन' कुशलमूलेन सस्वा नाभिजातकुलोपपत्तिं प्रतिलभेरन्यावद्धोधिपर्यंत मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥४२॥ सचेन्मे भगवन्बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु ये बोधिसत्वा मम नामधेयं श्रुत्वा तच्छ्वर्णकुशलमूलेन यावद्दोधिपर्यंत ते सर्वे बोधिसत्वचर्याप्रीतिप्रामोद्यकुशलमूलसमवधानगता न भवेयुमी तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
1 यं सह A. B. C. P. एकक्षणव्य A. B. C. P. • in C. P. च्छ्रवणसहगतेन B.C. P. च्छ्रवन A. तच्छ्रवन P. तच्छ्रवणेन B. तच्छ्रवण C.
तदन्येषु बुद्धक्षेत्रेषु left out कुशलो B. तच्छ्रवनेन A.
For Private and Personal Use Only