________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सुखावतीव्यूहः ॥ ॥३४॥ सचेन्मे भगवन्बोधिप्राप्तस्य समंतादप्रमेयासंख्येयाचिंत्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं श्रुत्वा प्रमादं संजनयेयुर्बोधिचित्तं नोत्पादयेयुः स्त्रीभावं च न विजुगुप्सेरन जातिव्यतिवृत्ताः समानाः सचेद्वितीयं स्त्रीभावं प्रतिलभेरन्मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥ ___॥३५॥ सचेन्मे भगवन्बोधिप्राप्तस्य समंताद्दशसु दिक्ष्वप्रमेयासंख्येयाचिंन्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु ये बोधिसत्वा मम नामधेयं श्रुत्वा प्रणिपत्य पंचमंडलनमस्कारेण वंदियंते ते बोधिसत्वचा चरंतो न सदेवकेन लोकेन सत्क्रियेरन्मा तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥३६॥ सचेन्मे भगवन्बोधिप्राप्तस्य कस्यचिद्धोधिसत्वस्य चीवरधावनशोषणसीवनरंजनकर्म कर्तव्यं भवेन्न वेव नवाभिजातचीवररत्नैः प्रावृतमेवात्मानं संजानीयुः सहचित्तोत्पादातथागतानुज्ञातमी तावदहमनुतरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥३७॥ सचेन्मे भगवन्बोधिप्राप्तस्य तत्र बुद्धक्षेचे सहोत्पन्नाः सत्वा नैवंविधं सुखं प्रतिलभेरंस्तद्यथापि नाम निष्परिदाहस्याहतो भिक्षोस्तृतीयध्यानसमापन्नस्य मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं ॥
॥३॥ सचेन्मे भगवन्बोधिप्राप्तस्य तब बुद्धक्षेत्रे ये बोधिसत्वाः प्रत्याजातास्ते यथारूपं बुद्धक्षेत्रे गुणालंकारव्यूहमाकांक्षेयुस्तथा
1 प्रसादं A. P. प्रासादं B. धोवन A. B.C. धावन P. न त्वेष नवाभि B. न त्वेष ननवाभि.. न त्वव नवाभि P.
D2
न वेव न नवाभिA. 4 जानीयात् ?
For Private and Personal Use Only