________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सुखावतीप्यूहः ॥ रति जिनविहारेण सर्वज्ञताविहारेण वताद्य तथागतो विहरत्यतीतानागतप्रत्युत्पन्नान्वा बुद्धान्भगवतः समनुस्मरतीति। एवमुक्ते भगवानायुष्मंतमानंदमेतदवोचत् । साधु साध्वानंदोदारः खलु त उन्मिंजो भद्रिका मीमांसा कल्याणं प्रतिभानं बहुजनहिताय त्वमानंद प्रतिपन्नो बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च यस्वं तथागतमर्थ परिप्रष्टव्यं मन्यसे । एवमेव भगवत्स्वानंदस्तथागतेधर्हत्सु सम्यक्संबुद्धेष्वप्रमेयेष्वसंख्येयेषु ज्ञानदर्शनमुपसंहरेन्न तथागतस्य ज्ञानमुपहन्येत । तत्कस्य हेतोः। अप्रतिहतहेतुज्ञानदर्शनी ह्यानंद तथागतज्ञान आकांक्षन्नानंद तथागत एकपिंडपातेन कल्पं वा तिष्ठेत्कल्पशतं वा कल्पसहस्रं वा कल्पशतसहस्रं वा यावत्कल्पकोटीनियुतशतसहस्रं वा ततो वोतरि तिष्ठेत् न च तथागतस्येंद्रियाण्युपनश्येयुर्न मुखवर्णस्यान्यथात्वं भवेन्नापि छविवर्ण उपहन्येत । तत्कस्य हेतोः। तथा ह्यानंद तथागतः समाधिमुखपारमिताप्राप्तः।सम्यक्संबुद्धानामानंद लोके सुदुर्लभः प्रादुर्भावः। तद्यथोदुंबरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभोभवति एवमेवानंद तथागतानामर्थकामानां हितैषिणामनुकंपकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः । अपि तु खल्वानंद तथागतस्यैव सोऽनुभावो यस्त्वं सर्वलोकाचार्याणां सत्वानां लोके प्रादुर्भावाय बोधिसत्वानां महासवानामर्थाय तथागतमेतमर्थ
1 From कल्पशतं to सहसं deest in C. B., and कोटीनियुत stands in P. only. उत्तरि४- A. P., deest in C. B. अनुभाव C. P. निभाय A. निभाव B. 4 यवं?
For Private and Personal Use Only