________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
अत्र विवक्षितेषु प्रमातृपदवाच्येषु सर्वेष्वपि आत्मविशुद्धिजन्यतारतम्येन प्रमातृविशुद्धितरतमता अवबोध्या, यद्यपि देहस्थिताः सर्वेऽपि परिस्पन्दिनः श्रात्मानः प्रमातृकोटिं प्रविष्टा अपि तेषु श्रात्मविशुद्धिप्रकर्षजन्यो विशेषोऽवबोध्य एव इति हृदयम्.
अत्र प्रमातृविषये श्राप - परिहारौ -
श्रयम् आत्मरूपः प्रमाता केवलम् अनुभूतिविषय:वेदान्ता अपि एनम् -' यतो वाचो निवर्तन्ते ' ' तन्न तन्न ' इत्यादिना च अनुभूतिविषयमेव श्राहुः जिनागमा अपि ' सव्वे सरा निट्टन्ति ' ' तक्का जत्थ न विखड़ ' इत्यादिना
तं तादृशमेव समर्थयांचक्रुः - अत एव नायं शब्दगम्यः, शास्त्रगम्यः, तर्कगम्यश्च तत एव च अत्र विषये बहूनि मतान्तराणि संजातानि केचित्तु तं देहरूपमेव नश्वरं मन्वते. अपरे अर्वाचीनास्तथागतपथजीविनस्तं क्षणनश्वरं स्वीकुर्वते, अन्ये सांख्यास्तं कर्तारम्, भोक्तारं च मन्यन्ते, अपरे तं व्यापकं विदन्ति, जैनास्तु तं परिस्पन्दिनम्, देहव्यापिनं, कर्मकर्त्तारम्, कर्मभोक्तारं च चिवते. अत्र अस्य अनुभवविपयत्वेनैव कतरत् मतं श्रेयः, सत्यं च इति निर्णेतुमसुकरम्. तथापि तार्किक पद्धत्या तर्करुचिजिज्ञासुप्रीत्यर्थमेव अत्र किंचित् चर्च्छते.
आक्षेपः
" श्रदृश्यत्वादरूपत्वाखीवो नास्त्येव भेदभाक् । अनुभूतेरगम्यत्वान्नृशृङ्गत्येव केवलम् ॥ ४५ ॥ देह एव वा जीवोsस्ति प्राणरूपोऽथवा च सः । इन्द्रयात्मा मनोरूपो नैवं भिन्नो लक्षणः ॥ ४३ ॥
For Private And Personal Use Only
-