________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
उपयोगरूपम् इन्द्रियम्-एते द्वे अपि भावेन्द्रिये नात्मनः पृथग्भूते, केवलं विस्तररुचिप्रमाणशास्त्राभ्यासपरायणशिष्यानुग्रहणार्थमेव पृथग् विविक्ते- इति भावेन्द्रियम्.
द्रव्येन्द्रिययोस्तु निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः सा ( निर्वृत्तिर) अपि द्विधा - बाह्या, आभ्यन्तरा च. तत्र बाह्या पर्पटिकादिरूपा, सा च विचित्रा ( श्रत एव ) न प्रतिनियतरूपतया उपदेष्टुं शक्यते तथाहि - मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी, भ्रुवौ च उपरितनश्रवणबन्धापेक्षया समे. वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे ( श्रोत्रे ) इत्यादि. जातिभेदाद् नानाविधा ( बाह्या निर्वृत्ति:-आकृतिः ) श्राभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना. ( तामेव दर्शयति - ) " सोतिंदिए णं भंते! किंसंठिए परणचे १ गोयमा ! कलंबुया संठाणसंठिते पण ते चक्खिदिए णं भंते ! किं संठिए प० ? मसूरचंदठाण संठिए प० घाणि दिए णं भंते! ( किंसंठिए ) १ गोयमा ! अइमुत्तगचंद संठाणसंठिते. जिभिदिए गं पुच्छा - ( किंसंठिए ) ? गोयमा ! खुरप्पसंठाणसंठिते. फार्सिदिए णं भंते! किंसंठिते ? गोयमा ! नाणासंठाणसंठिते " " केवलं स्पर्शेन्द्रियस्य निर्वृत्तेर् बाह्याभ्यन्तरभेदो न प्रतिपत्तव्यः - पूर्वसूरिभिर्निषेधात् "
•
अस्यां च आभ्यन्तरायाम् - इन्द्रियाकृतौ येषु इन्द्रियपरमाया विषयग्रहण साधनता - सा एव उपकरणम् - उपकारकत्वेन - तच्च ( उपकरणम् ) खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका आभ्यन्तरा निवृत्ति:- तस्या शक्तिविशेषः - इति उपकरणम् .
इन्द्रियाणां बाहल्यम् - ( अत्र सर्वम् - इन्द्रियबाहल्यादिकं आभ्यन्तराकृतेरेव अवसेयम् ) -
For Private And Personal Use Only