________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ सा च-एकापि तदावरणतारतम्येन अनेकधा भवति इति तां विभागत आह
सा द्विधा ।। २ ॥ निमित्तभेदेन सा बुद्धिर्द्विधा भवति. द्वित्वमेव नामग्राहं निर्दिशति
सापेक्षा निरपेक्षा च ॥३॥ इन्द्रियाणि मनश्च प्रतीतानि. वक्ष्यते चात्रैव तत्स्वरूपादिकम्, या बुद्धिः इन्द्रियाणि मनश्च अपेक्षते सा इन्द्रियमन:सापेक्षा. यथा अस्मादृशाम् अर्वाग्दृशां घटादिबुद्धिः. या च तानि अनपेक्ष्यैव संप्रवृत्ता सा तन्निरपेक्षा. यथा दिव्यदृशां वर्धमानादियोगिनां बुद्धिः. इन्द्रियाणाम्, मनसश्च विषयाःग्राह्यपदार्थाः प्रतीता एव.
तद्विषये विशेषस्त्वयम् [ परमर्षिप्रवचनालापकैर-इन्द्रियादीनां विषये विशेषतां पूर्वप्रतिज्ञातां निर्दिशति-] इन्द्रियाणां बाह्यः, आभ्यन्तरश्च आकार:-एतानि च पञ्च अपि इन्द्रियाणि द्विधा, तद्यथा--द्रव्यतः, भावतश्च. तत्र द्रव्यतो निवृत्ति-उपकरणरूपाणि, भावतो लब्धि-उपयोगात्मकानि. तत्र आत्मनि तिरोहितो यो उपयोगः-जागरणम्-सा लब्धिः अर्थात् शाकानयनप्रस्थिते वैयाकरणे यथा व्याकरणविषयो बोधः तिरोहितः, तथा ज्ञानावरणपरमाणुक्षयोपशमवशेन कियती चित्शक्तिः तिरोहिता सा-अक्षवाटाअस्थितमन्नसाम
र्थ्यवत् लब्धिरूपा-विषयग्रहणे च उपादानकारणरूपत्वेन इन्द्रियशब्देन ज्ञापिता-लब्धिरूपम् इन्द्रियम् . या तु चिशक्तिः आविर्भूता वर्तमाने अर्थक्रियाकारिणी सा उपयोगरूपत्वेन, विषयग्रहणासाधारणकारणत्वेन च उपयोगेन्द्रियम्
For Private And Personal Use Only