________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्त्वनिर्णयप्रासादतेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ॥ सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्मभे ॥ १६ ॥ यन्मूर्त्यवयवाः सूक्ष्मास्तस्येमान्याश्रयन्ति षट्।। तस्माच्छरीरभित्याहस्तस्य मूर्ति मनीषिणः ॥ १७॥ तदाविशन्ति भूतानि महान्ति सह कर्मभिः॥ मनश्चावयवैः सूक्ष्मैःसर्वभूतकृदव्ययम् ॥ १८ ॥ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ॥ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्ययम् ॥१९॥ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ॥ योयो यावतिथश्चैषां सस तावद्गुणः स्मृतः ॥ २० ॥ सर्वेषां तु सनामानि कर्माणि च पृथक् पृथक्॥ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥२१॥ कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः॥ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ २२॥ अग्निवायुरविभ्यस्तु त्रयं ब्रह्मा सनातनम् ॥ दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥ २३ ॥ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ॥ सरितः सागरान् शैलान् समानि विषमाणि च ॥२४॥ तपो वाचं रतिं चैव कामं च क्रोधमेव च ॥ सृष्टिं ससर्ज चैवेमा स्रष्टुमिच्छन्निमाः प्रजाः॥२५॥ कर्मणां च विवेकार्थ धर्माधर्मो व्यवेचयत् ॥ द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः॥२६॥ अण्व्योमात्रा विनाशिन्यो दशार्दानां तु याः स्मृताः॥ ताभिः साईमिदं सर्व संभवत्यनुपूर्वशः ॥२७॥
For Private And Personal