________________
Shri Mahavir Jain Aradhana Kendra
કુદ
www.kobatirth.org
तत्वनिर्णयप्रासाद
Acharya Shri Kailashsagarsuri Gyanmandir
तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा ॥ उपविष्टा ततस्तस्य तीरे देवी सखीयुता ॥ ३० ॥ पातुकामा च तत्तोयं स्वादुनिर्मलपङ्कजम् ॥ अपश्यन् कत्तिकाः स्नाताः षडर्कद्युतिसन्निभम् ॥ ३१ ॥ पद्मपत्रे त तद्वारि गृहीत्वोपस्थिता गृहम् ॥ हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः ॥ ३२ ॥ ततस्ता ऊचुरखिलं कत्तिका हिमशैलजम् ॥ ॥ कत्तिका ऊचुः ॥
दास्यामो यदि ते गर्भः संभूतो यो भविष्यति ॥ ३३॥ सोऽस्माकमपि पुत्रः स्यादस्मन्नाम्ना च वर्तताम् ॥ भवेोकेषु विख्यातः सर्वेष्वपि वरानने ! ॥ ३४ ॥ इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवः ॥ सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥ ३५ ॥ ततस्तां कृत्तिका ऊचुर्विधास्यामोऽस्य वै वयम् ॥ उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति ॥ ३६ ॥ उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः ॥ ततस्ता हर्षसंपूर्णाः पद्मपत्रस्थितं पयः ॥ ३७ ॥ तस्यै ददुस्तया चापि तत्पतिं क्रमशो जलम् ॥ पीते तु सलिले तस्मिंस्ततस्तस्मिन् सरोवरे ॥ ३८ ॥ विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः ॥ निश्वकामाऽतो बालः सर्वलोकविभासकः ॥ ३९ ॥ प्रभाकर प्रभाकारः प्रकाशकनकप्रभः ॥ गृहीतनिर्मलोदग्रशक्तिशूलः षडाननः ॥ ४० ॥
For Private And Personal