________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
र ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणत्वे सतीति विशेषयिष्याम इति चेत् । तर्ह्यप
मानस्य () प्रत्यक्षत्व प्रसङ्गः ।
For Private and Personal Use Only
waalfooddia
न तृतीयः । अनुमानादावपि तथाभावप्रसङ्गात् । स्वकाले सत एवार्थस्यावभासकत्वनियम इति चेत् । न अन्नायं नियमो नान्यत्रेति विवेक्तुमशकात्वात् । यत्र विषयस्य ज्ञानं प्रति हेतुत्वं तत्रायं नियमः । प्रतीत्यन्तरव्यवधानकल्पनायामनवस्था स्यादिति भावः । अत्र विशेष्यप्रतीतिशब्देनानुभूतित्वस्य विवक्षितत्वाद् विमर्शस्य चास्मन्मते स्मृतावन्तर्भावान्न तत्रातिव्याप्तिरिति शङ्कते । प्रमाणत्व इति । तर्ह्यपमितावतिव्याप्त्या स्वस्थो भवेत्याह । तर्ह्यपमानस्येति । अनेन सदृशी सा गौरिति पुरोवर्तिप्रतियोगिक परोक्षवस्तुनिष्ठ सादृश्यज्ञानस्य स्वविषयप्रतीत्यन्तराव्यवहितत्वादिति भावः । अथैतत्कल्पा निर्वाह निर्वेदात् तृतीयकल्पाश्रवणे सोsपि तथेत्याह । न तृतीय इति । कुत इत्याशङ्क्य किं तत्र स्वकालाकलितत्वं नाम वस्तुनः स्वकाले सत्त्वं वा स्वकालविशित्वं वा । आये स्वकाले सतोऽप्यवभासकत्वं स्वकाले सत एवेति द्वेधा विकल्प्याथे त्रैकालिकाथवभासिन्यनुमानादावतिव्याप्तिरित्याह । अनुमानादावपीति । तथाभावः सतोऽप्यवभासकत्वम् । द्वितीयमाशङ्कते । स्वकाल इति । ज्ञानकाल इत्यर्थः । सत एवेति । वर्तमानस्यैवेत्यर्थः । गूढाभिसन्धिरुत्तरमाह । नेति । अत्र प्रत्यक्षे । अन्यत्रानुमानादी । विवेक्तुं नियन्तुमित्यर्थः । अज्ञातपराशयः परो नियामकमाशङ्कते । यत्रेति । यस्मिन् प्रमाण
(१) वेदोऽपि -- इत्यधिकम C पु. ।
28