________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाण प्रकरणम् !
तत एव विकल्पस्मृत्योरपि प्रामाण्यमभ्युपगच्छ । तत्रापि पारम्पर्यस्य सुवचत्वात् । एतेन बाधविरहोsविसंवाद इति च प्रत्युक्तम् । न चावस्तुभूतसामान्यविषयत्वादप्रामाण्यं विकल्पस्य | अनुमानस्यापि तथाभावप्रसङ्गात् । ततश्चैतन्निरस्तम् । यथाहुः । विकल्पोऽवस्तुनिर्भसादसंवादादुपप्लवः । इति ।
For Private and Personal Use Only
१०
तथा ।
तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः | व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ इति । तर्ह्यव्याप्तिं परिहरतः पुनः सैवातिव्याप्तिरावर्त्तते इत्यहा कटमायुष्मतः स्वभ्रादभ्रमध्ये प्रवेश इत्याह । तति । तत एव पारम्पर्येणार्थजत्वादेवेत्यर्थः । तत्र विकल्पस्यार्थ - जनिर्विकल्पको त्थत्वादर्द्धजत्वम् । स्मृतेस्तु तादृग्विकल्पाहितसंस्कारप्रभवत्वादिति पारम्पर्येणार्थजत्वस्य सुवचत्वादित्यर्थः । अबाध्यत्वम विसंवादन मिति पक्षान्तरमाशाह । एतेनेति । विकल्पे ऽतिव्याप्तिकथनेनेत्यर्थः । विकल्पस्यापि बाध्यत्वान्नातिव्याप्तिरित्याशय किं तस्य बाध्यत्वमलीकसामान्यगोचरत्वात् । अशब्दात्मकस्यार्थस्य शब्दात्मकत्वेनावभासनाद्वेति द्वेधा विकल्प्याचं दूषयति । न चेति । कुत इत्याशङ्कयाबाध्यत्वस्यानुमानाव्याप्रेरित्याह । अनुमानस्यापीति । अनुमानस्यापि सामान्यगोचरत्वाविशेषादप्रामाण्यप्रसक्तेन सामान्यालीकत्वं युक्तमिति भावः । एतेन परेषां प्रलापाः परास्ता इत्याह । ततश्चेति । सामान्यालीकत्वायोगादित्यर्थः ॥
विकल्पः सविकल्पकम् उपप्लवो भ्रान्तिः कुतः अव
६७६