________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रमाण प्रकरणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५
न च शुक्तिकारजतादिविकल्प निदर्शनेन तस्य बिसंवादः साधयितुं शक्यते । पक्षादिग्राहिभिरेव विकल्पैः सकल लैङ्गिक विकल्पैश्चानैकान्त्यात् । तन्मिथ्यात्वे चाश्रयादा सिद्धिः प्रसज्येत । अनुमानप्रामाण्यमप्युत्सनसंकथमापदोत । एतेनार्थजत्वमर्थविषयत्वमपि (१) अविसंवाद इति निरस्तम् । विकल्पस्यापि तथाभावेन प्रामाण्य प्रसङ्गात् । अथैवं मनुषे स्वलक्षणप्रभवनिसंवादप्रमाणकत्वान्निर्विकल्पका विसंवादनस्येत्यर्थः । विमतो विकल्पो विकल्पत्वाद् विसंवादी शुक्तिरजत विकल्पवदित्यनुमानं स्यादित्याशङ्कयाह । न चेति । कुत इत्यत आह । पक्षादीति । पक्षहेतुदृष्टान्तग्रा हि विकल्पमामाण्ये तत्रैव विकल्पत्वहेतेारनैकान्तिकत्वं तदप्रामाण्ये हेत्वासिद्धिः स्यादित्यर्थः । किं चेत्थं प्रलपतो बौद्धस्य मूर्द्धनि भगवता बुद्धेनापि दुर्द्धर्षो महानयं वज्रपातः कृत इत्याह । अनुमानेति । विकल्पत्वाविशेषादिति भावः । उक्तदोषं पक्षान्तरे ऽप्यतिदिशति । एतेनेति । अर्थक्रियास्थितिलक्षणाविसंवादस्य विकल्पे ऽतिव्याप्तिकथनेनेत्यर्थः । साक्षात्स्वलक्षणप्रभवत्वमर्थजत्वम् अनारोपितार्थत्वमर्थविषयत्वमिति विवेकः । क थमन्यनिरासादन्यनिरास इत्याशङ्क्य दोषसाम्यादित्याह । विकल्पस्यापीति । विकल्पस्य प्रामाण्यप्रस अकमाह । तथाभावेनेति । अर्थजत्वेनार्थविषयत्वेन चेत्यर्थः । अन्यथा प्रवृत्तिसंवादौ न स्यातामिति भावः । ननु भ्रान्त्यैव प्रवृत्तिः अर्थक्रियासंवादस्तु यादृच्छिक इत्यप्रमाणमेव विकल्प इति नातिव्याप्तिरिति शङ्कते । अथैवमित्यादिना । अप्रामा
(१) श्रार्थविषयत्वं वा- पा. B.
663