________________
Shri Mahavir Jain Aradhana Kendra
૧૪
www.kobatirth.org
सटीकतार्किकरक्षायाम् ।
तथागतमतानुवर्त्तिना
प्रमाणम् यन्ति । तथाहुः ।
69
ह्यविसंवादिविज्ञानं अविसंवादश्चार्थक्रियास्थितिरिति लक्ष
प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः ।
अविसंवादनमिति । तदसत् । भूतभविष्यद्विषयेष्वनुमानेष्वव्याप्तेः । न हासतेोर्भूतभविष्यताः काचिदर्थक्रिया नामास्ति (१) । स्मृतिज्ञानसविकल्पकता - नाभ्यां चातिव्याप्तेः । न हि ततः प्रवृत्तो विसंवादाते । विकल्पस्य २ चाविसंवादानङ्गीकारे निर्विकल्पकस्यापि तन्न स्यात् । तद्द्वारकत्वात् तत्संवादनस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
अविसंवादिविज्ञानमित्यत्रार्थं क्रियाध्याहारेण व्याचष्टे । तथागतेति । नन्वविसंवादिविशेषणमनर्थकं सर्वस्यापि विज्ञानस्य विज्ञानत्वे विसंवादाभावादित्याशयार्थद्वारको विसंवादो दृष्टो न स्वरूपप्रतिबन्धन इत्यभिप्रेत्याह । अविसंवादश्चेति । अर्थक्रियासमर्थविषयत्वमविसंवादित्वमित्यर्थः । अत्र सौगतवाक्यं संवादद्यति । तथाहुरिति । तदेतद्दूषयति । तदसदिति । अव्याप्तिं तावदाह । भूतेति । कुत इत्याशङ्क्य त्वदुक्ताविसंवादासम्भवादित्याह । न हीति । अतिव्याप्तिं चाह स्मृतीति । तदेव स्कोरयति । न होति । अभिमतविषयं स्मृत्वा विकल्प्य वा प्रवृत्तस्य विसंवादाभावादित्यर्थः । विकल्पस्या विसंवादानङ्गीकाराज्ञातिव्याप्तिरित्याशड्याह । विकल्पस्येति । तदविसंवादनं कुतो न स्यादित्यत्राह । तद्दारकलादिति । सविकल्पकावि(१) अर्थक्रिया स्थितिनामास्ति - पा० पु. (२) सविकल्पकस्य च - पा. पु. |
For Private and Personal Use Only