________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
gotamanakamananendientikutaanda
aamanamanemansense
सटीकताकिरक्षायाम् ।
एयमभ्युपगच्छामः। इन्द्रियार्थसन्निकर्षविशेषस्य लिङपरामर्शदेश्च प्रामाण्याभ्यपगमात् । ते च प्रमान व्यभिचरन्तीति नाव्याप्तिः । एवं प्रमासम्बन्धे ऽपि प्रमयस्य व्यभिचारान प्रामाण्यप्रसङ्गः । किमर्थं तर्हि साधनमात्रया वेति विशेषणम् व्यायपादानादेव प्रमेयादिव्यावृत्तिसिद्धरिति चेत् सत्यम् । तयोरेव प्रमाव्याप्तिः सम्भवतीत्येतावता तदुपादानम् न तु लक्षगाशरीरानुप्रवेशेन सुखादिप्रमेयव्यावर्त्तनेन वा तदनुप्रवेश इति(१) न वैयर्थ्यम् ।
यथार्थानुभवः प्रमा। यशार्यानुभव इति प्रमावन्निति । किं तर्हि प्रमाणमत आह । इन्द्रियार्थेति । सन्निकर्षविशेषस्यालकादिमहकारिसाकल्यमेव विशेषः। लिङ्गपरामर्शस्तृतीयः प्रत्यथः आदिशब्दाच गृहीतसङ्गतिकशब्दविशेषसादृश्यविशेषयाः संग्रहः । न चैवमव्यातेरवकाश इत्याह । ते चेति । नापि प्रमेये ऽतिव्याप्तिः व्याप्त्यभावादेवेत्याह । एवमिति । तर्हि व्यावृत्त्यभावात् साधनाश्रयग्रहणं व्यर्थमिति शकते। किमर्थमिति । प्रौढवादेनाङ्गीकृत्योत्तरमाह । सत्यमिति । प्रमाव्यासमित्येतावदेव लक्षणं शेषं तदाहरणार्थमिति भावः । अथवा वास्तवपरिहारमाह । सुस्वादीति । सुखदुःखयरनुभूतैकसत्त्वेन प्रमाव्यातत्वमिति भावः । किं चेश्वरप्रमया नित्यसाथगोचरया प्रमेयमात्रस्थापि प्रमाव्याप्तेस्तन्निरासेनार्थवत्त्वं द्रव्यम् ।
ननु प्रमाणलक्षणप्रस्ताव प्रमालक्षणमसतमित्या(१) तदुपादानं स्यादिति पा. C पुः ।
amatiPunaraaHUDAE
For Private and Personal Use Only