________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
COCINA SOTERICIDAE
जातिनिरूपणम् ।
२०५
जप्तौ तु प्रमाणे ऽपि किं प्रमाणं दृष्टान्ते ऽपि को दृष्टान्त इति प्रमाणादिपरम्परानुयोगे नानवस्येत्यनवस्थाभासप्रसञ्जनमिति लक्षणम् । पूर्वत्र कारणपरम्परापेक्षामुखेनासत्त्वारोपः कारणम् उत्तरत्रानिश्चितस्यानिश्चायकत्वाध्यारोपः अनवस्था लक्षण प्रतिकूलतर्कपराहतिरारोप्या हेतुदोषपर्यन्तचिन्तायां पूर्वत्र पक्षादेः स्वरूपासिद्धिरुत्तरत्राज्ञानासिद्धिः । अत्र साधार मूलदोषः सुगम एव । श्रसाधारणं तु ज्ञप्लावयुक्ताङ्गाधिकत्वम् । ज्ञातस्यैव ज्ञापकत्वमयुक्तमेव रूपादिव्यवहारार्थं प्रदीप उपादीयमाने चक्षुरादिषु व्यवस्थादर्शनेनानवस्थाप्रसङ्गाभावात् । लिङ्गविशेषणत्वात् ज्ञातत्वमपिज्ञातव्यं विशेषणान्तरवत् तञ्च लिङ्गान्तरेणापि ज्ञातव्यम् तत्रापि तथेत्यनवस्येति चेत् न साध्यविपर्ययसंसर्गव्यवच्छेद कानामेव लिङ्गविशेषणानामवश्यज्ञेयत्वं ज्ञप्तिपक्षे । प्रतिकूलतर्कपराहतिरिति न कश्चिडे तुदोषोsस्तीत्याशड्याह । हेतु दो बेति । पक्षादेरिति पक्षहेतुदृष्टान्तानामनुत्पत्ती हेतोराश्रयस्वरूपे व्याप्यत्वासिदय आरोप्यन्त इत्यर्थः । अज्ञानासिद्धि: अज्ञातस्य पक्षादेरज्ञापकत्वादाश्रयाज्ञानासिद्ध्यादिका आरोप्यन्त इत्यर्थः । सुगम एव नेदं स्वसाध्यसाधकं सिडत्वादिति प्रतिषेधहेतेारप्युत्थतिज्ञतिपक्षयोः पूर्वोक्तदोषः सुवचन इत्यर्थः । चक्षुरादिष्विति । अज्ञातस्यैव चक्षुरादेः ज्ञापकत्वाव्यभिचारादर्शनेनेत्यर्थः । विशेषणान्तरवत् सामान्यवत्त्वादिवत् । साध्यविपर्ययेति । हेतोर्व्यभिचारपरिहाराणामित्यर्थः ।
- No. 6, Vol. XXIII June, 1901,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२०५