________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wasnayasmaamananeswarananeamsumammOTOHINDISASTERSTARAMAmavnusvommentumaa
N
amo
m
हेत्वाभासनिरूपणम् । साधारणा विरुद्धो वा दृष्टान्ते साध्यवर्जिते ॥२॥ असाधारणता हेतेस्तस्मिन् साधनवर्जिते। व्याप्य सिद्धिरभावे स्यादाश्रयस्य द्वयोरपि ॥३॥
साध्यविकला हृष्टान्तो विपक्ष एव स्यात्(२) । तत्र वर्तमाना हेतुः सपक्षान्तरवृत्तौ सत्यां पक्षत्रयवृत्तित्वात् साधारणानकान्तिको भवति। यथाऽनित्यः शब्दः प्रत्यक्षत्वात् सामान्यवदिति । अत्र विपक्ष सामान्य सपक्षे घटादौ पक्षे च शब्द वर्तमानः प्रत्यक्षत्वादिति हेतुः साधारणा भवति । असत्यां तु सपक्षवृत्ती पक्षविपक्षयोरव वर्तमान इति विरुद्धो ফানি। অস্বাভলি: : সীমান্তवदिति । साध्यधर्मवति दृष्टान्ते साधनविकले सपक्षादपि व्यावृत्तरसाधारणानकान्तिको हेतुः स्यात् । सानामित्यर्थः।
ननु साध्यविकलस्य साधारणविरुद्धयोरत्यन्तविलक्षणयोरन्तभावः कथमिच्छया विकल्प्यत इत्याशय तत्र हेतोः सपक्षवृत्त्यवृत्तित्वाभ्यां वैविध्याद् व्यवस्थितविकल्प इति व्याचथे। साध्यविकल इत्यादि। द्वितीया व्याचष्टे । साध्यधर्मवतीति । ननूदाहृते साधनविकले हेतोः पक्षमात्रवृत्तित्वादसाधारण्यमस्तु यस्तूदाहृतदृशन्तव्य
Rewanamanname
(१) तयारपिया. B पुः । (२) विपक्ष एव भवति-पा. B पुः ।
For Private and Personal Use Only