________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपनयनिगमननिरूपणम् ।
दुपनयाधीनत्वाञ्च तत्प्रतिसन्धानस्य प्रसिद्धाविनामावस्य साधनस्य पक्षधर्मताप्रतिपादनेन स्वरूपासिन्यथासिद्विनिरासेनापि प्रयोजनवत्त्वादुपनयस्य निगमनेऽपि हेत्वनुवादांशस्य तस्मादेवानित्यो नान्यस्मादिति सिद्धसाधनतोपाधिनिरास प्रयोजनत्वात् । पक्षानुवादस्यानित्य एवायं न नित्य इति नियमेन बाधप्रतिरोधयोर्निरसनेन सप्रयोजनत्वात् । केचन जर
For Private and Personal Use Only
१८३
नम् । ततः किमत आह । उपनयेति । हेतुना तु स्वरूपमात्रस्य पक्षधर्मतोक्ता न तु व्याप्तस्येति विशेषः । न चैता - बता हेतोर्वैयर्थ्य तस्य प्रागेवोक्तार्थत्वादिति । व्याप्तस्य पक्षधर्मताप्रतिसन्धानमुपनयप्रयोजनमित्युक्तम् । अथ तद्द्वारा स्वरूपासिद्धिव्याप्यत्वासिद्धिनिरासो वा प्रयोजनमित्याह । प्रसिद्धेति । अन्यथासिद्धिः सेोपाधिकत्व व्याप्यत्वासिद्धिरिति यावत् । व्याप्त्यनुसन्धानात् तन्निरासः पक्षधर्मताप्रत्यभिज्ञानात् स्वरूपासिद्धिनिरास इति विवेकः । अथ निगमनप्रयोजनं चाह । निगमने ऽपीति । तत्र सर्वाणि वाक्यानि सावधारणानीति न्यायेन तस्मादेवेति हेत्ववधारणस्य प्रमाणान्तरसिद्धिशङ्कानिरासः फलमित्याह । हेत्विति । न चेदं हेतुकृत्यं व्याप्तिपक्षधर्मतानुसन्धानात् प्राक् तस्य तद्वधारणाशक्तेरिति भावः । अनेनैव न्यायेन साध्यावधारणात् । प्रबलक्ष्य समबलस्य वा तद्विपर्ययादेकस्य व्यवच्छेदात पक्षांशोsपि सफल इत्याह । पक्षेति । न चैतत्प्रतिज्ञाकृत्यं विशिबुलिङ्गानुसन्धानात् प्राकू तस्यास्तदवधारणाशक्तेरिति ।
६६३