________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mee
n amaAHIRCIATIOIRNORIES
motananeswamme
१८२
सटीकतार्किकरक्षायाम् भवति। तथा चायं कृतकः शब्द इति साधोपनयः । न तथा चायं कृतकः शब्द इति वैधयोपनयः । तदुक्तम् । उदाहरणापेक्षस्तथेत्यपसंहारो न तथेति वा साध्यस्योपसंहार उपनय इति ॥६६॥ ॥ हेतुपूर्वं पुनः पक्षवचो निगमनं मतम् ॥ ६ ॥
व्याग्निपक्षधर्मतावद्वेतुपुरःसरं धर्मिणि साध्यस्योपसंहारो निगमनम् । पुनरित्युपसंहाररूयत्वमस्य प्रदर्शितम् । तस्मादनित्यः शब्द इति । तदुक्तम् । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति । उपनयनिगमनयोः कृतकार्यत्वादानर्थक्यमिति चेत् न व्याप्तिमत्तया प्रतिसन्धीयमानस्य लिङ्ग त्यानुमानत्वा
उदाहरणापेक्षः साधनस्योपसंहार उपनय इति लक्षणम् । तथेत्यादिस्तु भेदोक्तिः ।। ६८ ॥ ७ ॥
निगमनलक्षणं व्याख्यातुं पठति । हेत्विति । पक्षवचः प्रतिज्ञावचनमित्यर्थः । प्राचीनहेतूक्तिता विशेषमाह । व्याप्तीति । पक्षवच इत्येतयाचष्टे । धर्मिणीति । ननूपसंहाररूपत्वं संग्रहे न प्रतीयते इत्यत आह । पुनरितीति । हेत्वपदेशात् हेतूक्तिपूर्वकमित्यर्थः । प्रतिज्ञाद्यवयवत्रयपक्षावलम्बेन मीमांसकः प्रत्यवतिष्ठते । उपनयेति । कृतकार्यदिति हेतुप्रतिज्ञाभ्यामेव गतार्थत्वादित्यर्थः । परिहरति। नेति।कुतो नेत्याशङ्का उपनयस्य तावदर्थवत्तामाह । व्याप्तिमत्तयेति । प्रतिसन्धान पक्षधर्मतानुसन्धा
ma
maee
MINIONumembreumarsamsutanesamtarianttunesamli
For Private and Personal Use Only