________________
Shri Mahavir Jain Aradhana Kendra
42
www.kobatirth.org
सटीकतार्किकरक्षायाम्
रणगुणप्रक्रमेण रक्तादिगुणेोत्पत्तिरिति कृतं विस्त
रेण ॥
५७०
Acharya Shri Kailassagarsuri Gyanmandir
अथ कर्मलक्षणमाह ।
कर्म चासमवायि स्याद्यत्संयोगविभागयोः । समुचितयोः संयोग विभागयेारसमवायिकारणं कर्म तेनैकत्र कारणयेोः संयोगविभागये । नीतिव्याप्तिः । असमवायिकारणं च समवायिकारण प्रत्यासन्नम् (१) । द्विविधा व प्रत्यासत्तिः । समवायिकारणसमवेतमित्याशयेनाह । इति कृतमिति । प्रक्रिया तु विस्तरभयान्न लिख्यते । प्रमाणं तु पीलुपाके विमताः पिठरे रूपादयः कारणगुणपूर्वका अवयविरूपादित्वात् पटरूपादिनदित्याद्युन्नेयम् । इति पाकजोत्पत्तिः ॥
सामान्यवत्सु शिष्टत्वात् सामान्यादेः प्राक्कर्म लक्षणमाह । अथेति । ननु संयोगविभागयेारसमवाय्यसमवेतमित्यर्थश्चेत् सामान्यादावतिव्याप्तिः असमवायिकारणमित्यर्थश्चेत् संयोगविभागयेोरपि तथात्वात् तयोरेवातिव्याप्तिरित्याशङ्क्य व्याचष्टे । समुचितयोरिति । समुचयफलमाह । तेनेति । संयोगस्य विभागाजनकत्वे सति संयोगजनकत्वं विभागस्यापि संयोगाजनकत्वे सति विभागजनकत्वं कर्मणां तूभयजनकत्वमिति भेद इति भावः । एवं कर्मलक्षणस्यासमवायिकारणज्ञानसापेक्षत्वात् तलक्षणं चाह । असमवायिकारणं चेति । कथञ्चित् प्रत्यासन्नेषु अदृष्टादिष्वतिव्याप्तिपरिहारार्थं विशेषमाह । द्विविधेति । समवा
(१) अवधृतसामर्थ्यं - इत्यधिकं B
For Private and Personal Use Only