________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MormonepornaromansonancipanuaryamannanonmanNINDENANT
१४६
HEROHTTARATHI
सटीकताकिफरक्षायाम स एव भावनेति व्यपदिश्यते । यथाहुः ।
মাল অালা জানালানীহঃ। জুন। गुरुत्वं तु गुणो हेतुराये पतन कर्मणि ॥ ४६ ॥ द्रवत्वं तु गुणा हेतुराये स्यन्दनकर्मणि(१) ।
द्वितीयादिपतनस्य स्यन्दनस्य च वेगहेतुत्वादादा इत्युक्तम् । पतनस्यन्दनयोराश्रयद्रव्यस्यापि समवायिकारणत्वेन हेतुत्वाद् गुण इत्युक्तम् ॥४६॥ssil | ब्याह । आत्मेत्यादि । अत्रोत्साह इति लक्षणम् उत्साहपदा
र्थः प्रयत्नः कचिल्लोके हर्षेऽप्युत्साहपदप्रयोगदर्शनात तथा न भ्रमितव्यमित्याहा कृत्यादीति । आदिशब्दादुपयोगादि(२) शब्दसंग्रहः । तथा च कृत्यादिपर्यायपदार्थ उत्साहः प्रयत्न न हर्षपदार्थस्तस्य गौणत्वादित्यर्थः । न च कायिकव्यापारविशेषे ऽपि प्रयत्नभ्रमः कार्य इत्याशयेनाह । आत्मधर्म इति । ननु कृत्यादिपवाच्यः प्रयत्न इत्युक्तं कृतितत्साध्यमध्यस्थ इत्यादि भावनायास्तवाच्यत्वदर्शनादित्याशझ्याह । स एवेति । योऽयमुत्साहापरनामा लोके प्रसिद्ध प्रयत्नः स एव वेदे पुरुषप्रवर्तनात्मशब्दभावनाविषयभूतपुरुषप्रवृत्तिरूपा भावनेति व्यपदिश्यत इत्यर्थः । अत्राचार्यसंमतिमाह । यथाहुरिति । किं करोति पचति कि करोति गच्छतीत्येवं सर्वत्र करोतिसामानाधिकरण्यदर्शनात् सर्वधात्वर्थवर्तिसामान्यरूपं करोत्यर्थभूतभावना पूर्वोक्तप्रयत्नलिङाद्याख्यातप्रत्ययवाच्यतया प्रतीयत इति वार्तिकार्थः ॥ ४६ ।। ७ ॥
(१) स्पन्दनकर्मणि-पा. A पु. । (२) उद्योगादि-पा०E पु. !
meemenPRIORNmpannamrapmomsonapreranamamagrewa
s enamentarmaceumsammanumaanwaepaapaavanmayanarma
For Private and Personal Use Only