________________
Shri Mahavir Jain Aradhana Kendra
१४०
Sente
www.kobatirth.org
सटीकतार्किकरक्षाथाम्
भागयोरकारणमनपेक्ष इति गुणलक्षयमिति । ननु गुणेrsपि गुणत्वसमवायस्य रसादयभावस्य चाश्रय इति कथं जातिमात्राश्रय इत्युच्यते । अनवस्था दुःष्यतया समवायस्य समवायान्तराभावात् प्रद्रव्यत्वेन च संयोगाभावात् संयोगसमवाययोभीवधर्मत्वेनाभावाश्रयत्वासंभवाच केवलं विशेषणविशेष्यभाव एव तयेोः स चाश्रयाश्रयिभावमन्तरेणापि भवतीत्योपचारिकी
५०६
Acharya Shri Kailassagarsuri Gyanmandir
तमिति । अत्र द्रव्याश्रयशब्देन सामान्य यत्त्वं लक्ष्यते । अगुण इति च समवायिकारणत्वराहित्यमिति वृत्तिकारः । तथा च गुणसिद्धी निर्गुणत्वसिद्धिनीन्योन्याश्रय इति भावः । स्वोक्तलक्षणे जातिमात्राश्रयत्वं गुणस्यासिद्ध समवायाभावयोरप्याश्रयत्वादिति शङ्कते । नन्विति । मुख्य सम्बन्धपूर्वकस्यैवाश्रयत्वस्येह लक्षणत्वात् समवायाभावयोश्च तदसम्भवान्नातिव्याप्तिरिति । कथं मुख्यसम्यन्धाभावस्तयेोरित्याशङ्का समवाये तावत् समवायाभावं दर्शयति । अनवस्थेति । संयोगाभावं च दर्शयति । अद्रव्यत्वेनेति । भावेऽपि तदुभयाभावं दर्शयति । संयेोगेति । कथं तर्हि रूपसमवायवान् घटः परध्वंसवन्तस्तन्तव इति च तयोः सम्बन्धताव्यवहार इत्यन्नाह । केवलमिति । ननु विशेषणविशेष्यभावोऽपि रूपवान् दण्डीत्यादी मुख्यस म्वन्धपूर्वक एव दृष्ट इत्याशङ्क्य नायं नियमः पशुमानित्यादौ अन्यथापि दर्शनादित्याह । स चेति । आश्नयाश्नयिभावमिति । मुख्यसम्बन्धमित्यर्थः । सम्बन्धव्यवहारस्तुभयनि
1
For Private and Personal Use Only