________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwRENIMATAmurAumaramshaNARAININOMIMIMAGARItsaadian
प्रमाणप्रकरणे ऽभावान्तभानिरूपणम् । येति चेत् न त्वगिन्द्रियग्राही वाया चाक्षुषरूपाभावानवगमप्रसङ्गात् । अभावप्रतीतो चाधिकरणप्रतीतेरनुपयोगान तनेन्द्रियमुपक्षीयते । उपयोगे वा तन्तुলায়ানা লিসানু। নয় জি प्रतियोग्यधिकरणाधारत्वेन तन्त्वाश्रयत्वात् तेषां च विनष्टत्वात् । भवतु वाधिकरणग्रहणावश्यम्भावः । तथापि न तन्नेन्द्रियमुपक्षीयते तदवान्तरव्यापारत्वात् तस्य । न चैवं लिङ्गन्नानस्यापि इन्द्रियावान्त
त्याह । नेति । द्वितीयमाशङ्कते । प्रतियोगीति । तत्राप्यनियमाह । नेति । किं चाधिकरणग्रहणस्थानुपयोगाच न तत्रेन्द्रियस्योपक्षय इत्याह । अभावप्रतीताविति । उपयोगित्वोक्तौ यत्राधिकरणमेव न सम्भवति तत्राभावोपलम्भो न स्यादित्याह । उपयोगे वेति । अधिकरणाभावं सूचयति । तन्तुनाशोत्तरकालमिति । अभावस्य तन्त्वाश्रयत्वे युक्तिमाह । तस्येति । तर्हाधिकरणाभावः कथमत आह । तेषामिति । कारणविभागात् कारणनाशाखा कार्यद्रव्यनाशः । तत्र द्वितीयप्रक्रियायामधिकरणं न सम्भवतीति भावः । ननु तन्तुनाशे ऽपि तवयवपरम्परायामापरमाणोरस्त्येवाधिकरणं यत्किञ्चिद्दधृमनुमितं वा अन्यथा निराश्रयस्येन्द्रियेणापि दुर्घहत्वादित्याशझ्याह । भवतु वेति । अनुपक्षये मण्डूकप्लत्या व्यापाराव्यवधानत इति हेतुभुपादत्त । तद्वान्तरेति। न हि स्वाङ्ग स्वस्य व्यवधायकमिति भावः । तर्हि लिङ्गज्ञानस्याप्यवान्तरव्यापारत्वे लैङ्गिकस्याप्पैन्द्रियकत्वापत्तिरित्याशयाह । न चैव
For Private and Personal Use Only