________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणग्रकरणे उपमाननिरूपणम् ।
तस्य प्रतियोगिनिरूप्यत्वेन प्रतियोगिनमनभिधायाभिधानानुपपत्तेः प्रतियोगिना गोरप्यभिधाने गौरवप्रसङ्गात् अप्रतीतगूनामारण्यकानां तत्सादृश्यानवगमेन गवयपदव्यवहाराभावप्रसङ्गाञ्च । ननु गवयशब्दा गवयत्वस्य वाचकोऽसति वृत्त्यन्तरे वृद्वैस्तत्र प्रयुकत्वात् येोऽसति वृत्त्यन्तरे यत्र प्रयुज्यते स तस्य वाचकः यथा गोशब्दो गोत्वस्येत्यनुमानादेव तत्सम्बन्धप्रतीतिरिति चेत् । न तद्वाचकत्वज्ञानमन्तरेण लिङ्गविशेषणासिद्धेः । उपचारेणापि तत्र प्रयोगोपपत्तेः । यथाहुः ।
a
प्रतीतमिति । परिहरति । नेति । तस्येति । सादृइयस्येत्यर्थः । तस्याप्यभिधाने दोषमाह । प्रतियोगिन इति । गौरवादयवीक्षतोऽनिष्टमाह । अप्रतीतगूनामिति । अप्रतीता गौयैरिति विग्रहः । गोस्त्रियोरुपसर्जनस्येति ह्रस्वः । अथानुमानात् सञ्ज्ञा सञ्ज्ञिसम्बन्धप्रतीतिरिति द्वितीयं पक्षमाशङ्कते । नन्विति । गौणलाक्षणिक प्रयोगेषु व्यभिचारवारणाय हेतु विशिनष्टि । असति वृत्त्यन्तर इति । सम्बन्धज्ञानात् प्रागस्यैव सन्दिग्धत्वात् सन्दिग्धविशेपणासिडो हेतुरिति परिहरति । नेति । अथ प्रयोगान्यथानुपपत्त्या तत्सिद्धिरत आह । उपचारेणापीति ।
For Private and Personal Use Only
अत्राप्युदयनसम्मतिमाह । यथाहुरिति । उक्तरीत्या सादृश्यस्य निमित्तत्वायोगान्निमित्तस्य सतो गवयत्वस्य
र - No. 4, Vol. XXII. - April, 1900.
२४६