________________
Shri Mahavir Jain Aradhana Kendra
रित्यत्राह ।
www.kobatirth.org
सटीकतार्किकरक्षायाम् ।
कोसावुपाधिनीम यद्विधुरः सम्बन्धो व्याप्ति
११२
Acharya Shri Kailassagarsuri Gyanmandir
सानायापका: सायमयाप्ता उप
धयः (१) ॥ १३ ॥
यावत्साधन देशमवर्तमानो यावत्साध्यदेशवृतिरुपाधिः । यथा वैधहिंसायां हिंसात्वेनाधर्मत्वे साध्ये निषिद्वत्वमुपाधिः । तद्धि साध्यमधर्मत्वं व्याघ्रोति न व्यामोति च साधनाभिमतं हिंसात्वम् पक्ष एव वैधहिंसायां सत्यपि हिंसात्वे तस्याभावात् । साधनाव्यापक इत्येतावदुच्यमाने ऽनित्यत्वसाधने कृतकत्वे सावयवत्वमुपाधिः स्यात् । श्रमूर्ते क्रियादा कृतकत्वे सत्यपि सावयवत्वाभावेन साधनाव्यापकत्वात् ततश्च साध्यव्यापक इत्युक्तम् । न हि सावयननुसरइलाके उपाधिलक्षणस्थ का सङ्गतिरत आह । harsसाविति ।
लक्षणं विवृणोति । यावदित्यादि । यावान् साधनदेश यावत्साधन देशं यावदवधारण इत्यव्ययीभावः । तत्रावर्तमानः साधनाव्यापक इत्यर्थः । यावत्साध्यदेवां वृत्तिर्यस्येत्यव्ययपूर्वपदो बहुब्रीहिः समपदेन व्याप्यत्वेन व्यापकत्वेन च साध्यसम्बन्ध उक्तः । उदाहरति । यथेति । लक्ष्ये लक्षणं पातयति । तद्धीति । व्याप्नोति व्याप्यते चेति शेषः । लक्षणाक्षरव्यावर्त्यमाह । साधनाव्यापक इत्यादिना । तस्मात् प्रयोजनवदेव विशेषणद्वयोपादा
1
(१) झुपाधयः - A
For Private and Personal Use Only