________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाण प्रकरणे ऽनुमाननिरूपणम् ।
साधनमनुमानम् । प्रत्यक्षादीनां तु प्रमेयव्याप्तिसद्भावे ऽपि तद्ग्रहणापेक्षा नास्तीति ग्रहणविशेषयोन तेषां निरासः । लिङ्गपरामर्शेौऽनुमान मित्याचार्याः । तत्र लिङ्गलक्षणमुत्तरत्र भविष्यति । परामर्श इति च प्रतिसन्धानात्मकं तृतीयलिङ्गज्ञानमभिमतमिति ॥ १२ ॥
0
व्याप्लिक्षणमाह ।
ब्यामिः सम्बन्धो निरुपाधिकः । सोपाधिकसम्बन्धवतां मैत्रीतनयत्वादीनां व्याहिमभूदिति निरुपाधिक इत्युक्तम् । स्वाभाविकः सम्बन्धो व्याप्तिरिति यावत् ।
याह । प्रत्यक्षादीनामिति । प्रमेयादीत्यादिशब्देन सहकायदिसंग्रहः । तच व्याप्तेः प्रायेण सत्तेवापेक्षिता न तु तज्ज्ञान (समित्यदोष इत्यर्थः । उदयनाचार्यैरपीदमेव लक्षणं भङ्गयन्तरेणेोकमित्याह । लिङ्गेति । तस्यार्थं वर्णयम् लिङ्गलक्षणाकाङ्क्षायामाह । तत्रेति । उत्तरत्रेति हेतुलक्षणावसर इत्यर्थः । द्वितीयलिङ्गपरामर्शस्य कारणत्वं केचिदिच्छन्ति तन्निरासार्थमाह । परामर्श इति । किं तत् तृतीयलिङ्गज्ञानं तदाह । प्रतिसन्धानात्मकमिति । तथा चायं धूमवानिति व्याप्तस्य लिङ्गस्य पक्षधर्मतानुसन्धानं प्रतिसन्धानं तदात्मकमित्यर्थः ॥ १२ ॥
ननु इलाकशेषेण प्रकृतानुपयुक्तं किमप्युच्यत इत्याशङ्खय नेत्याह । व्याप्तिरिति ।
विशेषणफलमाह । सेोपाधिकेति । निरुपाधिकशव्दार्थमाह । स्वाभाविक इति । अनन्यप्रयुक्त इत्यर्थः । (१) प्रत्यचादी | (२) ज्ञानं - पा. D .
For Private and Personal Use Only