________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
सटीकता किरक्षाया ।
इति न्यायात् । सर्वशाखाविहितेतिकर्तव्यता कलापोपसंहारसमर्थनेन सर्वेषां सर्वत्र प्रामाण्याभ्युपगमात् किंनिबन्धनश्चाधिगतविषये प्रद्वेषः । किं तत्राधिगत्यन्तरानुत्पत्तेः उत्पत्तावपि वानपेक्षितत्वात् पूर्वविशिष्टत्वाद्वा । न प्रथमः । सामग्य प्रतिबन्धेन प्रमिते ऽपि प्रमान्तरोत्पत्तिदर्शनात् । न द्वितीयः । प्रतिपव्यवस्थाश्रयणे विरुद्धात इत्यर्थः । तथाप्यनङ्गीकारे ऽभ्युपगमविरोधश्च स्यादित्याह । सर्वशाखागतेति । शाखान्तरे कर्मभेदः स्यादित्यत्र कस्याश्चिच्छाखायामानातमग्निहोत्रदर्शपूर्णमासादिकं कर्म शाखान्तरानाताद्भिन्नमभिन्नं वेति विचार्य न्यूनाधिकाङ्गतया श्रवणाद्भिन्नमेवेति प्राप्ते ऽनुमन्यतो ग्राहामिति न्यायेन सर्वाङ्गोपसंहारात् सर्व शाखाप्रत्ययमेकं कर्मेति सिद्धान्तकरणादित्यर्थः । तदेवमनधिगतार्थत्वं न प्रामाण्ये प्रयोजकं विरोधादित्युक्तम् । सम्प्रति ह्यावर्त्यमधिगतार्थत्वमप्रामाण्ये न प्रयोजक विरोधादिति वक्तुं पृच्छति । किंनिबन्धनश्चेति । प्रद्वेषः प्रामाण्यासह नमित्यर्थः । ननु दुर्घटार्थे किं पक्षपातेनापीत्याशङ्का दीर्घव्यमेव कुत इति त्रेधा विकल्पयति । किं तत्रेति । ध्वस्तस्य पुनर्ध्व सवत् ज्ञातस्य पुनज्ञानान्तरानुत्पत्तेरप्रामाण्यम् उत उत्पन्नस्यापि भुक्तभोजनवत् अनपेक्षितत्वाद्वा अपेक्षितस्यापि दीपवर्तिदेशे दीपान्तरवत् कार्यतः स्वरूपतो विषयतः प्रभातृतो वा विशेषाभावाद्वत्यर्थः । आद्यं परिहरति । न प्रथम इति । कुतो नेत्यत आह । सामग्रीति । सामग्रीसद्भावासद्भाव निबन्धने हि ज्ञानोत्पत्यनुत्पत्ती न त्वधिगतत्वानाधगतत्वनिबन्धने इत्यर्थः ।
४७
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only