________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
433
त्यैन्द्रस्यावदार्य वैश्वदेवस्या छेदथैन्द्रस्य॑ ॥ ६० ॥ उपर्रिष्टादिन्द्रियेणैवास्मा उभयतस्सजातान्परि
गृह्णात्युपाधायपूर्वयं वासो दक्षिणा भवति । ऐन्द्रस्य । अवदायेत्यव-दाय । वैश्वदेवस्येति वैश्व-देवस्य॑ । अवेति । द्येत् । अर्थ । ऐन्द्रस्य॑ ॥ ६० ॥ उपरिष्टात् । इन्द्रियेणं । एव । अस्मै । उभयतः । सजातानिति स-जातान् । परीति । गृह्णाति । उपाधाय्यपूर्वयमित्युपाधायपूर्वयम् । वासः । दक्षिणा । सजातानामिति स
_ 'ऐन्द्रस्येत्यादि ॥ प्रथममैन्द्रस्यावदाय द्विवैश्वदेवस्यावद्यति । अथैन्द्रस्योपरिष्टात्पुनरवद्यति । एवमिन्द्रियेणेन्द्रदत्तेन वीर्येण सजातानुभयतः आदावन्ते च परिगृह्णाति । अथान्वाहार्यमासाद्य उपाधाय्यपूर्वयं वासो दक्षिाणां दद्यात् । वस्त्रान्तरयो न्तयो]रुपधेयं रत्नं विरुत्रं(?) उपाधाय्यम् । छान्दसो ण्यत्, कृदुत्तरपदप्रकृतिस्वरत्वेन 'तित्स्वरितम्' इति स्वरितत्वम् । तत्सूत्रम् पूर्व वानकाल एव यातीति उपाधाय्यपूर्वयम् । विचि नपुंसकस्य द्वस्वत्वम्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहिर्वा-उपाधाय्यं वस्त्रं पूर्वयं प्रथमं प्राप्यं यस्य कारणत्वेन तत्तथोक्तम् । उपहित्यै उपसेवायै भवति सजातानाम् ॥
3G
For Private And Personal Use Only