________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
434
तैत्तिरीयसंहिता.
[का. २. प्र. २
सजातानामुपहित्यै पृश्नियै दुग्धे प्रैय्यङ्गवं चरुं निर्वपेन्मरुद्भ्यो ग्रामकामः पृश्रियै वै पयसो मरुतो जाताः पृश्नियै प्रियङ्गवो मारुताः खलु वै देवतया सजाता मरुत एव स्वेने भागधेयेनोपं धावति त एवा
स्मै सजातान्प्र यच्छन्ति ग्राम्यैव भजातानाम् । उपहित्या इत्युप-हित्यै । पृश्रियै । दुग्धे । प्रैय्य॑ङ्गवम् । चरुम् । निरिति । वपेत् । मरुद्र्य इति मरुत्-भ्यः । ग्रामैकाम इति ग्रामकामः । पृश्नियै । वै । पय॑सः । मरुतः। जाताः। पृश्रियै । प्रियङ्गवः । मारुताः । खलु । वै । देवतया । सजाता इति स-जाताः । मरुतः । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते । एव । अस्मै । सजातानिति स-जातान् । प्रेति । यच्छन्ति । ग्रामी । एव । भवति ।
-
पश्नियै दुग्धे इत्यादि ॥ प्रभिः श्वेता गौः । शुलविन्दुचितेत्येके । प्रैय्यङ्गवमिति । प्रियङ्गः धान्यविशेषः । विकारे 'ओरञ्' इत्यञ् । एभियै प्रियङ्गव इति । पयसो जाता इत्येव । मारुताः खलु वा इत्यादि । गतम् ।।
For Private And Personal Use Only