________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
330
तैत्तिरीय संहिता.
[का. २. प्र. १.
दूराद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ । धा॒रय॑न्त आ॒दि॒त्यासो॒ जगत्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गोपाः । प्रणी॑ता॒विति॒ प्र - नतौ । "धा॒रय॑न्तः । आ॒दि॒त्यास॑ः । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गोपा इर्त गो - पाः । दीर्घाधय॒ इति॑ दीर्घ - हिंसितः वृद्धवयाः प्रभूतान्नतमः सुवीरः शोभनपुत्रपौत्रादिकः । 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । किञ्च — केचिदपि तं नकिः नन्ति हन्तुं समर्था भवन्ति । ' युष्मत्तत्ततक्षुषु' इति त्वम् । अन्तितः अन्तिकेपि स्थिताः न च दूराद्दूरेपि स्थिताः । 'कादिलोपो बहुलम्' इत्यन्तिकस्य लोपः । कस्यैतदेवं भवतीत्याह--य आदित्यानामादित्यार्थं प्रणीतौ परिचरणे भवति वर्तते ॥
Acharya Shri Kailassagarsuri Gyanmandir
15 आदित्येभ्यो धारयद्वद्रयश्चरुं निर्वपेदपरुद्धो वाऽपरुद्धयमानो वा' इत्यस्याः पुरोनुवाक्या — धारयन्त इति त्रिष्टुप् ॥ जगद्धारयन्तस्स्थापयन्तः आदित्यासः आदित्याः स्था: स्थास्त्रवः 'क्विप्च ' इति क्विपू । देवाः देवनशीलाः विश्वस्य भुवनस्य भूतजातस्य गोपाः पोषकाः दीर्घाधियः दीर्घाण्यविच्छिन्नानि धियः कर्माणि उदयास्तम्यलक्षणानि बुद्धयो वा येषान्ते दीर्घाधियः । छान्दसं पूर्वपदस्य दीर्घत्वम् । असुर्य असुरमर्हतीति । ' छन्दसि च' इति यः । असुस्थानीयमुदकं ददातीत्यसुरो मेघः । तेन धार्यमुदकं रक्षमाणा रक्षन्तः ऋतावान सत्यवन्तः यज्ञवन्तो वा । पूर्ववद्वनिप् दीर्घत्वं च चयमानाः चाययन्तः गमयन्तः । चय गतौ, अनु
J
*सं. २-३-१.
For Private And Personal Use Only