________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता.
245
लभत स कृष्ण एकशितिपादभवयो वरुणगृहीतस्याथ्स एतं वारुणं कृष्णमेकशितिपादमालशेत वरुणम् ॥ ७ ॥ एव स्वेन भागधेयेनोप धावति स एवैनै वरुणपाशान्मुञ्चति
कृष्ण एकशितिपाद्भवति वारुणो एकशितिपादित्येक-शितिपात् । अभवत् । यः। वरुणगृहीत इति वरुण-गृहीतः । स्यात् । सः । ए॒तम् । वारुणम् । कृष्णम् । एकशितिपादमित्येकशितिपादम् । एति । लभेत । वरुणम् ॥ ७ ॥ एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपोर्त। धावति । सः। एव । एनम् । वरुणपाशादिति वरुण-पाशात् । मुञ्चति । कृष्णः । एकशितिपादित्येक-शितिपात् । भवति । वारुणः । हि ।
प्रमापितः कृष्ण एकशितिपादभवत् । एकश्शितिः श्वेतः पादो यस्येति त्रिपदो बहुव्रीहिः । यहा-शितिः पादो यस्येति शितिपात् । ‘पादस्य लोपः' इति समासान्तः । एकेन पादेन शितिपात् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् ॥
'वरुणगृहीतस्स्यादिति ॥ वरुणो महोदर इति व्याधिरित्येके ।
For Private And Personal Use Only