SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 तैत्तिरीयसंहिता. का. २. प्र. १. प्र॒जाप॑तिः प्र॒जा असृजत ता अस्माथ्सृष्टाः पराचीराय॒न्ता वरुणमगच्छन्ता अन्वैत्ताः पुनरयाचत ता अस्मै न पुनरददार्थोऽब्रवीद्वरं वृणी प्वार्थ मे पुर्नर्देहीति तासां वरमा'प्र॒जाप॑तिरिति प्र॒जा-पतिः । प्रजा इति प्रजाः । असृजत । ताः । अस्मात् । सृष्टाः । परांचीः । आयन्न् । ताः । वरुणम् । अगच्छन्न् । ताः। अन्विति । ऐत् । ताः । पुनः । अयाचत । ताः। अस्मै । न । पुनः । अददात् । सः । अब्रवीत् । वरम् । वृणीष्व । अर्थ । मे। पुनः । देहि । इति । तासाम् । वरम् । एति । अलअत । सः। कृष्णः। 'प्रजापतिरित्यादि ॥ प्रजापतिना सृष्टाः प्रजाः पराचीः पराच्यः अपरक्तचित्तास्सत्यः अस्मात्प्रजापतेरायन् आगच्छन् । ता वरुणमगच्छन् अभजन्त । अथ प्रजापतिः ताः प्रजाः पराचीर्यातीः अन्वैत् अन्वगच्छत् । ताश्च वरुणमयाचत । वरुणश्च ताः पुनःपुनर्याचितोपि नाददात् न दत्तवान् । अथाब्रवीत्प्रजापतिः, वरमभिमतं मत्तो वृणीष्व । अथानन्तरमिमाः प्रजाः वरलाभतुष्टो मे देहीति । अथैव*मुक्ता तासां प्रजानां मध्ये वरं वरिष्ठं पशु वरुणायालभत स्वयमेव वरदानमालम्भनेनाकरोत् । स च ततः *ग-तथैव. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy