SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २२.] महभास्करभाष्योपैता. 221 उप क्षरन्ति सिन्धवो मयोभुवं ईजानं चं यक्ष्यमाणं च धेनवः । पृणन्तं च परिं च ॥ ४१ ॥ श्रव स्यौ घृतस्य धारा उप यन्ति दिपति । उपेति । क्षरन्ति । सिन्धवः । मयोभुव इति मयः-भुवः । ईजानम् । च । यक्ष्यमाणम् । च । धेनवः । पृणन्तम् । च । पपुरिम् । च । ॥ ११ ॥ श्रवस्यवः । घृतस्य॑ । धाराः । उपेति । पूर्वजन्मकृतेन पापेन कर्मणा न बाध्यते । नशेलेंटि व्यत्ययेन शप् । केचिदाहुः-कर्मणेति प्रथमैकवचनत्य लुगपवादः ‘सुपां सुलुक्' इत्याकारः । नशेान्ताल्लेटि 'बहुलं संज्ञाछन्दोः ' इति णिलुक् । ईजानमिष्टवन्तं देवान् । यजेः 'लिटः कानज्वा' इति कानच् । यक्ष्यमाणं च अचिराद्यक्ष्यमाणं यष्टुं कृताध्यवसायमिति । धेनवः देवान् प्रीणयत्यः एणन्तञ्च श्राद्धेन पितॄन प्रीणयन्तम् । ट प्रीती, श्नम् च । पपुरिञ्च पितॄणां प्रीणनशीलं च न एणन्तमेव । ' आढगमहनः ' इति किन्प्रत्ययः । न केवलमीनानं यक्ष्यमाणमेव, अपि तु एणन्तं च पपुरि चेति । प्रासङ्गिकी वृत्तप्रशंसा, इष्टापूर्तकारिणां प्रशंसनात् । तहते कर्मण्यस्य विनियोगो द्रष्टव्यः । श्रवस्यवः, श्रवोन्नं तदिच्छन्त्यः अन्नयुक्ता इत्यर्थः । ‘क्याच्छन्दसि' इत्युप्रत्ययः । काः पुनस्ता इत्याहघृतस्य धारा अविच्छिन्नाः प्रवाहाः यथोक्तस्वभावाः यथोक्त For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy