________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
228
तैत्तिरीयसंहिता.
का. १. प्र. ८.
श्वतः । सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बधियां निर्ऋतिं पराचैः कुयन्ति । विश्वतः । "सोद्रेिति सोमा-रुद्रा । वीति । वृहतम् । विषूचीम् । अर्मीवा । या।नः। गर्यम् । आविवेशेत्या-विवेश । आरे । बाधेथाम् । निरतिमिति निः-ऋतिम् । पराचैः । कृतम् ।
लक्षणान् पुरुषान् उपक्षरन्ति । अपि च उपयन्ति विश्वतः सर्वाभ्यो दिग्भ्य उपागच्छन्ति ॥
15 यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सोमारौद्रं चकै निर्व पेत् ' * इत्यस्य पुरोनुवाक्या-सोमारुद्रा वि वृहतमिति त्रिष्टुप् ॥ हे सोमारुद्रा सोमारुद्रौ । पूर्ववदानङ्, आकारश्च । विवृहतम् । वृहू उद्यमने, तौदादिकः । विषूची विष्वग्गमनाम् । कामित्याहया अमीवा रोगस्तेजोहानिरूपः नोस्माकं गयं गृहं आविवेश । किञ्च-आरे दूरे बाधेयां गमयतं, गमयित्वा नाशयतं, निति निकृष्टां गतिं निकृष्टगमनहेतुं पापम् । 'पातौ च ' इति गतेः प्रकृतिस्वरत्वम्, प्रादिसमासो वा । पराचैः परावृत्तिभिर्गमनैः । यथा पुनरस्मत्पार्श्व नागच्छति तथा बाधेथाम् । निपातोयं यथा उच्चैः नीचैः । एवादित्वादन्तोदात्तत्वम् । किञ्च-चेदर्थे चि
-
*सं. २.२.१..
क. घ. म-पाप्रपादित्वा.
For Private And Personal Use Only