________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
226
तैत्तिरीयसंहिता.
[का. १. प्र..
स न सुन्वान न देवयो । असदत्र सुवीर्यंत त्यदाश्वश्वियम् । नकि
ष्टं कर्मणा नगन्न प्र योपन्न योषति। न।सुन्वान । न । देवयो इति देव-यो। असत् । अत्र । सुवीर्यमिति सु-वीर्यम् । उत । त्यत् । आश्ववियमित्याशु-अश्वियम् । “नकिः । तम् । कर्मणा । नशत् । न । प्रेति । योषत् । न । योन हिंस्य असि । हे सुन्धान सोमानाहरन् त्वमपि न रिष्यसि । हे देवयो देवानात्मन इच्छन् पाकयज्ञादिभिः प्रचरन् त्वमपि न रिष्यसि । 'न छन्दस्यपुत्रस्य ' इतीत्वाभावः, 'क्याच्छन्दसि ' इत्युप्रत्ययः । किं कारणमित्याह-देवानां य इन्मन इत्यनुषज्यते । अयज्वानस्सोपद्रवा भवन्तीति शेषः ॥
1 अथ तृतीया-असदिति ॥ असद्भवेत् । अस्तेर्लेट्यडागमः। अत्र वक्ष्यमाणे सुवीर्य शोभनवीर्य वलं धनं वा पुरुष भवति । 'वीरवीरों च' इत्युत्तरपदान्तोदात्तत्वम् । उत अपि च त्यत् तदेव आश्वश्वियं आशुना अश्वसमूहेन युक्तं भवति । 'केशाश्वाम्यां' इति छः, छान्दसं ह्रस्वत्वं, 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । उपलक्षणं चैतत् . हास्तिकादीनाम् । अत्रेत्युक्तम्, कुत्रेत्याह-देवानां य इन्मन इत्यनुषज्यते । अयज्वानो निश्श्रीका भवन्तीति शेषः ॥ __“अथ चतुर्थी-नकिरिति ॥ तमिति प्रथमास्थाने द्वितीया । स खलु कर्मणा धर्मेण नशत् नश्यति न दुःखाभिभूतो भवति ।
For Private And Personal Use Only