________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १८.]
भभास्करभाष्योपेता.
208
~
सप्तदश स्तोत्रं भवति प्राकाशावध्वर्यवै ददाति स्रजमुद्दात्रे रुक्म५ होत्रेऽश्व प्रस्तोतृप्रतिहर्तृभ्यां द्वादश
पष्ठौहीब्रह्मणे वशां मैत्रावरुणाय स्तोत्रम् । भवति । प्राकाशौ । अध्वर्यवे । ददा
त । स्रजम् । उद्गात्र इत्युत्-गात्रे । रुक्मम् । हो । अश्वम् । प्रस्तोतृप्रतिहर्तृभ्यामिति प्रस्तोतृप्रतिहर्तृ-भ्याम् । द्वादश । पृष्ठोहीः । ब्रह्मणे । वशाम् । मैत्रावरुणायेति मैत्रा-वरुणाय । ऋषइदमेव स्तोत्रं स्तोमो भवति । अनुब्राह्मणं च भवति 'सप्तदशो दशपेयः' इति ॥ __प्राकाशावित्यादि ॥ सौवर्णं दर्पणद्वयमवर्यवे ददाति । प्रकाशन्तेऽत्र रूपाणीति प्राकाशः । अधिकरणे घङ्, 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घश्छान्दसो वा, थाथादिनोत्तरपदान्तोदात्तत्वम् । सनमित्यादि । अत्रापि हिरण्यत्र नमुद्गात्रे ददाति । रुक्ममिति । रुक्म रुचकम् । हिरण्यमिति केचित् । अश्वमिति गतम् । द्वादशेति । चतुर्वर्षास्स्त्रीगवीः । पष्ठं वहन्तीति 'वहेश्व' इति णिः, 'वाहः' इति ङीष् , 'वाह ऊम् ' 'एत्येधत्यू सु' इति वृद्धिः । द्वौ च दश च द्वादश । 'अष्टनस्सङ्ख्यायाम्' इत्यात्वम्, 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । वशा वन्ध्या । ऋषभः खेलगतिः । ब्राह्मणादाहृत्य शंसति ब्राह्मणानि शंसति
*सं. १-८-८.6
*ब्रा. १-८-८.
For Private And Personal Use Only