________________
Shri Mahavir Jain Aradhana Kendra
204
www. kobatirth.org
तैत्तिरीय संहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८.
रूष॒भं ब्रह्मणाच्छ सिने॒ वाज॑सी नेष्टापो॒तृभ्या॒ स्थूरि॑ यवाचि॒तम॑च्छाव॒कार्याऽन॒हम॒ग्नीवे॑ भाग॒वो होता॑ भवति श्राय॒न्तीयं ब्रह्मसामं भम् । ब्राह्मणाच्छ्र सिने॑ । वास॑सी इति॑ । नेष्टापि॒तृभ्या॒ामिति॑ नेष्टापो॒तृभ्य॒म् । स्थूरि॑ । य॒वाचि॒तमिति॑ यव- आ॒दि॒तम् । अ॒च्छ॒व॒काय॑ । अ॒न॒ड्डाह॑म् । अ॒ग्नीध॒ इत्य॑ग्न इधे । भा॒ग॒वः । होता॑ । भ॒व॒ति॒ । आ॒य॒न्तय॑म् । ब्रह्मसा॒ममिति॑ ब्रह्म - सा
1
वा ब्राह्मणाच्छंसीति । 'सुप्यजाती णिनिः' 'ब्राह्मणाच्छंसिन उपसङ्ख्यानम्' इति पञ्चम्या अलुक् । पक्षान्तरे छान्दसोदुगागमः । नेष्टा च पोता च नेष्टापोतारौ । ' आनङ्कृतो द्वन्द्वे' इत्यानङ् । स्थूरीति । स्थूरिः पष्ठवाट् । तत्साधर्म्याद्गोयुक्तो रथ उच्यते । यवाचितं यवा अस्मिन्नाचीयन्ते यवैर्वा आचितमिति शकटमुच्यते । 'संज्ञायामनाचितादीनाम्' इत्युत्तरपदान्तोदात्तत्वं व्यत्ययेन प्रवर्तते । अच्छाभिमुख्येन ब्रवीतीत्यच्छावाकः । ' हलच' इति संज्ञायां घञ्, छान्दसो दीर्घः । अनड्डाहमिति । अनो वहतीत्यनङ्कान् । ष्टषोदरादिः । अग्निमिन्ध इत्यनीत् । भार्गव इति । ऋत्विग्वरण एव भार्गवः भृगोरपत्यं तत्र वरितव्यः । श्रायन्तीयमिति । ब्रह्मणस्साम ब्रह्मसामम् । पूर्ववदच् । श्रायन्तीयं भवति श्रायन्त इव सूर्यम् ' * इत्यस्यामृचि गेयं भवति । श्रायन्तशब्दस्मिन्न
6
* सामसं. ३-२-३-५.
For Private And Personal Use Only