________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
202
तैत्तिरीयसंहिता.
का. 1. प्र. ८.
यो भवति शतं ब्राह्मणाः पिबन्ति ब्राह्मणाः । पिबन्ति । सप्तदशमिति सप्त-दशम् । इति ष्टरच् । दश वत्सतरान् सोमविक्रयिणे दक्षिणां दत्वा 'अस्मे ज्योतिः'* इत्यादि कृत्वाऽऽदत्ते सोमम् । 'मित्रो न एहि इत्यादि लुप्यते । 'वनेषु व्यन्तरिक्षम् ' इत्यादि कुर्यात् । ततो हस्तेन राज्ञो नयनमाप्राग्वंशात् । प्राग्वंशसमीपे यत्र कुत्रचित् सोमफले स्थापयित्वाऽऽतिथ्यं कुर्यात् । आतिथ्यानन्तरं सौर्येण चरुणेष्ट्वा पौर्वाह्निकीभ्यां प्रवग्योपसयां प्रचर्य, तदहरेवापराह्निकीभ्यां प्रचर्य विरामः; एवं प्रथमोपसदन्तमहस्सन्तिष्ठते । दशपेयो भवतीति । एकैकस्मिन् चमसे दशदश ब्राह्मणास्सोमं पिबन्ति यस्मिन् स दशपेयः । अधिकरणे ‘अचो यत्' इति यत्, 'ईद्यति' इतीत्वं, कृदुत्तरपदप्रकृतिस्वरत्वे 'यतो नावः' इत्यायुदात्तत्वम्, सप्तपर्णादिवद्वीप्साद्यर्थलाभः । पात्रसंसादनकाले प्राक. तेभ्योतिरिक्ता दश चमसाः प्रयोक्तव्याः, उन्नयनकाले चोन्नतव्या इति शतं ब्राह्मणाः पिबन्तीति । यत एवं चमसेचमसे दशदश ब्राह्मणाः पिबन्ति, तस्मात्संहत्य शतं सोमस्य पातारस्सन्तीत्यर्थः । एतेन दशपेयार्थे वीप्सां द्योतयति । ब्राह्मणग्रहणं विशिष्टब्राह्मणपरिग्रहणार्थम् । तेन सोमयाजिनः आदशमात्पुरुषादविच्छिन्नसोमपीथाः विद्यावन्तस्त्रविद्यवृद्धा वा मीमांसादिशास्त्राभियुक्ता वाकोवाक्येतिहासादिपुराणादिज्ञाः कछ्चान्द्रायणादितपोनिठाः पवित्रार्थेष्टि यज्ञक्रतूनामाहर्तारश्च ब्राह्मणाः पातारो वेदितव्याः । सप्तदशं स्त्रोत्रं भवतीति । सप्तदशस्त्रोत्रीयाः परिमाणमस्य सप्तदशम् । *आप. श्री. १०-२६-११.
आप. श्री. १०-२७-३. आप. श्री. १०.२७-१००
ईक-पि.
For Private And Personal Use Only