________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १६.]
भभास्करभाष्योपेता.
198
देवैः क्षत्रस्य नाभिरसि क्षत्रस्य योनिरसि स्योनामा सीद सुषदामा सीद मा त्यो हिसीन्मा मा हि५
सीनिषसाद धृतवतो वरुणः पस्त्याअहम् । विश्वैः । देवैः । क्षत्रस्य । नाभिः । असि । 'क्षत्रस्य । योनिः । असि । स्योनाम् । एति । सीद । सुषदामिति सु-सदाम् । एति । सीद । मा। त्वा । हिसीत् । मा। मा। हिसीत् । 'नीति । ससाद । धृतव्रत इति धृत-व्रतः । वरुणः। पुस्त्यांसु । एति । साम्राज्यायति सां-राज्याय ।
'आसन्दी मिनोति–क्षत्रस्येति ॥ क्षत्रस्य बलस्य नाभिस्सन्नहर्न त्वमसि । 'नहो भश्च' इति इत्ययः ॥
"तस्यामधिवासं स्तृणाति-क्षत्रस्य योनिरसीति ॥ योनिः कारणं क्षत्रस्यासि, अतो ह्ययं जायते । 'अधीवासमास्तृणाति सयोनित्वाय'* __ तत्रासीनं तमभिमन्त्रयते--स्योनामासीदेति ॥ स्योनां सुखामासीद आस्थायास्त्र । सुषदां सुखेनासादनीयामासीद । खलि कदुत्तरपदप्रकृतिस्वरत्वम् । सिवेरौणादिके नप्रत्यये उठि गुणे च स्योनेति भवति । मा त्वा हिंसीदियमासन्दी । तां च त्वं मा हिंसीः ॥
'अनुमन्त्रयमाणमासन्नमभिमन्त्रयते-निषसादेति गायत्र्या त्रिपदया ॥ 'वरुणः पस्त्यास्त्रा' इति द्वितीयः पादः । इयादि
*ब्रा. १-७.१०.
2
For Private And Personal Use Only