________________
Shri Mahavir Jain Aradhana Kendra
194
www. kobatirth.org
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
[का. १. प्र. ८.
स्वा साम्राज्याय सुक्रतुर्ब्रह्मा ३ न्त्व५
8
सुक्रतुरिति सुक्रतुः । ब्रह्मा३न् । त्वम् । रा
|
पूरणेनाक्षरसङ्ख्या सम्पद्यते । निषसाद निषण्णवान् । धृतव्रतः धृतकर्मा वरुण एव स्वयमिहास्ति । यद्वा — वरुणो वारयितारीणां यजमानोयं सिंहासन इवात्र निषसाद धृतव्रतः स्थितव्रतः पस्त्यासु गृहेषु । आकारस्समुच्चये । गृहेषु च निषसाद शत्रूणां सर्वमनेन जितमिदानीम् । (यं) यदा साम्राज्याय शोभन राज्याय सुक्रतुश्शोभनकर्मा शोभनसङ्कल्पो वाऽयमत्र निषसाद पस्त्यासु च तथैव निषसादेति । यद्वा-आकार उपयेर्थे । पस्त्याग्रहणं चोपलक्षणम् । गृहनगरजनपदादिषु यत्तद्विषयसाम्राज्यं तदर्थं निषसाद शोभनकर्माऽयमिति । " क्रत्वादयश्च' इत्युत्तरप
दाद्युदात्तत्वम् ॥
# अथ ऋत्विक्षु च सर्वतः पर्युपविष्टेषु अध्वर्युं राजाभिमन्त्रयतेब्रह्मान् इति ॥ हे ब्रह्मन् इति । 'दूराहूते च' इति वाक्यस्य टेरुदात्तः प्लुतश्च, 'पूर्वत्रासिद्धम्' इति तस्यासिद्धत्वात् ' आमन्त्रितस्य ' इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ' अनुदातं पदमेकवर्जम्' इति च न प्रवर्तते ॥
For Private And Personal Use Only
'अध्वर्युः प्रत्याह — त्वमिति ॥ हे राजन् त्वमेव ब्रह्मासि नाहम् । हेतुमाह — यतस्सविता सर्वस्य प्रेरक ः अनुज्ञाता वा त्वमसि त्वदाज्ञया हि सर्वं प्रवर्तते । सत्यसवः सत्यानुज्ञः अमोघशासनः, अतस्त्वमेव ब्रह्मासि ॥