________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192
तैत्तिरीयसंहिता,
[का. १. प्र. ८.
गोजा ऋतुजा अद्विजा ऋतं बृहत् ॥ ३०॥
मित्रोसि वरुणोसि समहं विश्वैगोजा इति गो-जाः। ऋतुजा इत्यूत-जाः।अद्विजा इत्यद्रि-जाः । ऋतम् । बृहत् ॥ ३० ॥ __हि सिषं मर्तजास्त्रीणि च ॥ १५ ॥
'मित्रः । अस । वरुणः। असि । समिति । उपकारार्थं सीदतीति नृषत् । ऋतार्थ सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिरुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ।।
इत्यष्टमे पञ्चदशोनुवाकः.
'वैश्वदेव्यामिक्षायां यजमानो दक्षिणं बाहुमुपावहरते-मित्रोसीति ॥ मित्रो देवस्त्वमसि वैश्वदेवत्वादन्यतररूपत्वेन भेदेन स्तुतिः । यहा–हिंसायास्त्रासकस्तुतिस्त्वमसि ।। __ "सव्यमुपावहरति-वरुणोसीति ॥ वरुणो देवस्त्वमसि । पूर्ववत् स्तुतिः । वारको वा शत्रूणामसि ॥
तामभिमृशति-समहमिति ॥ समित्युपसर्गस्ससाधनां क्रियामाह । संहतोहं विश्वैर्देवैः । यद्वा-विश्वैर्देवैर्युक्तां त्वामहं संस्टशामि ॥
For Private And Personal Use Only