SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भट्टभास्करभाष्योपेता. 167 छन्दसामवतु सप्तदशस्स्तोमो वैरूप५ साम मरुतो देवता विविणमुदीचीमा तिष्ठानुष्टुप्त्वा ॥ २४ ॥ छन्दसामवत्वेकवि शस्स्तोमो वै राज साम मित्रावरुणो देवता बवि-राजम् । एति । तिष्ठ । जगती । त्वा । छन्दसाम् । अवतु । सप्तदश इति सप्त-दशः । स्तोमः । वैरूपम् । सामं । मरुतः । देवता । विट् । द्रविणम् । 'उदीचीम् । एति । तिष्ठ । अनुष्टुबित्यनु-स्तुप । त्वा ॥ २४ ॥ छन्दसाम् । अवतु । एकविश इत्यैक- विशः । स्तोमः। वैराजम्। साम । मित्रावरुणाविति मित्रा-वरुणौ । देवा । भवतीति । अष्टाचत्वारिंशदक्षरा जगती । सप्तदशस्स्तोमः सप्तदशस्तोत्रीयः । वैरूपाख्यं साम । मरुतो देवता । विट् वैश्याः ॥ ___ "उत्तरां-उदीचीमिति ॥ उत्क्रम्याञ्चति भूगोळमित्युदीची ; यत्र गच्छन्नादित्यो न दृश्यते । 'अनिगन्तोञ्चतौ' इति प्रकतिस्वरत्वम् । अनुष्टुब्द्वात्रिंशदक्षरा । एकविंशः एकविंशतिस्तोत्रीयः । वैराजाख्यं साम । मित्रावरुणौ देवता । समुदायस्य देवतात्वादेकवचनं, देवतात्वमात्रस्य विवक्षितत्वात् ; श्रुतयः प्रमाणमिति यथा । ' देवताद्वन्द्वे च ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy