________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
168
तैत्तिरीयसंहिता.
[का. १. प्र. ८.
लं द्रविणमूवीमा तिष्ठ पतिस्त्वा छन्दसामवतु त्रिणवत्रयस्त्रि शौ स्तोमौ शाक्कररैवते सामनी बृहस्प
तिर्देवता वर्ची द्रविणमीहान्याहबलम् । द्रविणम् । 'ऊर्ध्वाम् । एति । तिष्ठ । पङ्क्तिः । त्वा । छन्दसाम् । अवतु । त्रिणवत्रयस्त्रिशाविति त्रिणव-त्रयस्त्रि शौ । स्तोमौ । शाक्कररैवते इति शाक्कर-रेवते । सामनी इति । बृहस्पतिः । देवा । वचः। द्रविणम् । ईदृङ् । च । 'अन्याङ्। च । एतादृङ्। च । प्रतिङिति प्रति
__ मध्ये-उर्ध्वामिति ॥ पङ्किः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविंशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः । शाक्करं रैवतं च सामद्वयम् । बृहस्पतिर्देवता । वनस्पत्यादित्वाह्रयोयुगपत्प्रकृतिस्वरत्वम् । वर्षों दीप्तिः । निगदसिद्धमन्यत् ॥
6--10अत्र मारुत एकविंशतिकपालोस्ति, तत्र मध्यमानि सप्तकपालानि 'धुनिश्च ध्वान्तश्च '* इत्यारण्येनानुवाक्येनोपधीयन्ते । अन्यानि चतुर्दश, एताभ्यां गणाभ्यामुपदधाति-ईदृडेत्यादिना ।।
*ते. आ.४-२४.
For Private And Personal Use Only