________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
160
तैत्तिरीयसंहिता.
[का. 1. प्र. ८
ऋतेन व्यु त्रितो जरिमाण न आनडिष्णोः क्रमौसि विष्णोः कान्त
मंसि विष्णोर्विक्रान्तमसि ॥१९॥ उ । तिः। जरिमाणम् । नः । आनट् । 'विष्णोः । क्रमः । असि । 'विष्णोः । क्रान्तम् । असि । विष्णोः । विक्रान्तमिति वि-क्रान्तम् । असि ॥ १९ ॥ पशूनां वाताः पञ्चविश्शतिश्च ॥ १० ॥
गृहीत्वा स्तोत्रफलं ददात्वित्यर्थः । अभोतेलिङि व्यत्ययेन परस्मैपदं, विकरणव्यत्ययेन भम् । नशेर्वा गत्याल्लुङि 'मन्त्रे घस' इति च्ले क्, 'छन्दस्यपि दृश्यते' इत्याडागमः । यद्वाउक्तं ऋतेनास्मानसूषुदन्तेति तदिदमस्माकं जरिमाणं जरां दीर्घायुष्टुं व्यानवापयतु । अन्तर्भावितण्याल्लुङ् । कियच्चिरमित्याहउ इत्यप्यर्थे । त्रितोपि त्रिभ्योपि वयोभ्यः पुरस्तात् जरिमाणं नः प्रापयतु सर्वमायुर्भावयत्वित्यर्थः ॥
1-त्रीन्विष्णुक्रमान् प्राचः कामति-विष्णोः क्रमोसीति ॥ व्याख्यातम् ॥
इत्यष्टमे दशमोनुवाकः.
*सं-1-६.५.
For Private And Personal Use Only