________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनु. १.].
भभास्करभाष्योपेता.
169
अभूमामन्महि महत ऋतस्य नाम सर्वे वाता वरुणस्याभूवन्वि मित्र
एवैररातिमतारीदसंषुदन्त यज्ञिया महतः । ऋतस्य । नाम । सर्वे । वाताः । वरुणस्य । अभूवन्न् । वीति । मित्रः । एवैः । अतिम् । अतारीत् । अतूंषुदन्त । यज्ञियाः । ऋतेन । वीति ।
मनुतेर्लङि, शपो लुक् । यद्वा-न केवलं मित्रस्य व्रत्या अभूम; अपि तु ऋतस्य च नामामन्महीति ॥ ___ अथ द्वितीया । किम्बहुना सर्वे ऋत्विजः वरुणस्य वाताः कर्मयोग्या अभूवन् । छान्दसोऽङ् । मित्र एवैरागमनैः अस्माकमरातिमदानशीलं शत्रु व्यतारीत् वितारयतु दातारं करोतु । छान्दसो लुङ् । यदा विपूर्वस्तरतिः विप्लवे वर्त ते, विनाशो विप्लवः, चुरादिः, विनाशयविर्त्यर्थः । रातेः क्तिचि रातिः, न रातिः अरातिः । यहा-अराति शत्रु विशेषेण तारयतु अतिकामयतु । किञ्च ; यज्ञियाः यज्ञसम्पादनार्हाः ऋत्विनः अस्मानृतेन यज्ञेनासू घुदन्त सूदयन्तु । षूद क्षरणे । रसास्वादनेन सूदयन्तु । 'यज्ञविग्भ्यां घखनौ' । किञ्च ; उ इति समुच्चये । त्रितोनिः त्रिभ्यो लोकेभ्य उत्पन्नः, त्रिभ्यो वातिवातेभ्यः, त्रिभिर्वा ब्राह्मणादिभिः, लौकिकैर्वा कृतप्राप्तिः । स त्रितः अस्माकं जरिमाणं स्तोत्रम् । जीर्य तेरौणादिक इमनिच् । जनित्रशब्दादा भावे छान्दस इमनिच् , ' तुरिष्ठेमैयस्सु' इति तृशब्दलोपः । जरिमा स्तोतृत्वं तत् अग्निः व्यानटू व्यामोतु अस्माकं स्तुति
For Private And Personal Use Only