________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपेता.
161
अर्थेतस्स्थापां पतिरसि वृषास्यू'अर्थेत इत्यर्थ-इतः । स्थ । अपाम् । पतिः । - अभिषेकार्थं पोडश सप्तदश वा वायव्यैर्गृह्णाति--अर्थेतस्थे त्यतैर्मन्त्रैः ॥ एतास्वप्सु प्रथममाज्येन हुत्वा ग्रहान् गृह्णाति । यस्मिन्नेव जुहोति, तस्मिन्नेव जले तेनैव मन्त्रेण ग्रहं गृह्णाति । तत्र 'आपो देवीः' इत्यादिका त्रिष्टुप् सर्वत्रानुषज्यते । ' राष्ट्रदास्स्थ राष्ट्र दत्त स्वाहा' इत्यन्तेन होमः, 'राष्ट्रदास्स्थ राष्ट्रममुप्मै दत्त' इत्यन्तेन ग्रहणम् । अमुष्मा इत्यत्र चतुर्थ्यन्तं विशेषवाचिपदमुपादीयते, यथा राजसिंहवर्मणे दत्तेति । 'अपां ग्रहान् गृह्णात्येतद्वाव राजसूयम् '* इत्यग्निकाण्डे ब्राह्मणं भवति । तत्रायं प्रयोगक्रमः-' अर्थेतस्थापो देवीर्मधुमतीरगृह्णन् ' इत्यारभ्य 'राष्ट्रं दत्त स्वाहा' इति सारस्वतीप्वप्सु प्रागेवानीतासु वहन्तीनां वा जले आज्येन जुहोति, पुनश्च : अर्थतस्स्थापो देवीः' इत्यारभ्य, ' राष्ट्र राजेन्द्रवर्मणे दत्त ' इति तस्मिन्नेव जले वायव्यैः पर्णमयेन गृह्णाति । पर्णमयेन त्रुवेणेति केचित् । एवमुत्तरत्रापि होमग्रहणे सर्वत्र समानमन्त्रे कर्तव्ये । मन्त्रार्थस्तु-अर्थतस्स्थ हे आपः अर्थमरणीयं स्थानान्तरं यन्ति गच्छन्तीति अर्थतः । एतेः विप् । तादृशीर्व आपः व्यापनस्वभावाः देवीः दीप्तिमतीः मधुमती: मधुरसवतीः अगृह्णन्देवाः, ऋत्विजो वा । ऊर्जस्वतीः बलवतीः राजसूयाय राजसूयार्थं राजसूये अभिषेकार्थमगृह्णन् चितानाः चिन्तयन्तीः राजसूयाभिनिष्पत्त्युपायचिन्ताव्याप्टताः । यहा-राजसूयाय चिताना देवा अगृह्णन् । रानेह सूयते राजा वानेन सूपते इति रानसूयः क्रतुः, 'राजसूयसूर्य' इति क्यपि निपात्यते । चिती
*सं-५-६-२.
For Private And Personal Use Only