________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
154
तैत्तिरीयसंहिता.
[का. 1. प्र. ८.
सोमाय वनस्पतये श्यामाकं चरु५ सवित्रे सत्यप्रेसवाय पुरोडशं द्वादशकपालमाशूनां ब्रीहीणा५ रुद्राय
पशुपतये गावीधुकं चरुं बृहस्पतये स्पतये । श्यामाकम् । चुरुम् । सवित्रे । सत्यप्रसवायेति सत्य-प्रसवाय । पुरोडाशम् । द्वादशकपालमिति द्वादश-कपालम् । आशूनाम् । व्रीहीणाम् । रुद्राय॑ । पशुपतय इति पशु-पतये । गावीधुकम् । चरुम् । बृहस्पतये । वाचः। पतये ।
स्स्वामी गृहपतिः । ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । कृष्णव्रीह्यादयो वाक्यशेषात्प्रायशः प्रसिद्धाः कृष्णवर्णाः, कृष्णाः । वीहीणामित्यादौ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । वनानां पतिस्स्वामी वनस्पतिः । पारस्करादित्वात्सुट् , 'उभे वनस्पत्यादिषु' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । श्यामाकाः श्यामाकाख्याः । सवित्रे 'उदात्तयणः' इति विभक्तिरुदात्ता । सत्यप्रसवायामोधाभ्यनुज्ञाय । आशवप्षाष्टिका इत्येके । त्रिपक्षपच्या इत्यन्ये । पशूनां पतिस्स्वामी पशुपतिः । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । गावीधुकास्तृणतण्डुलाः । बृहतां पतिः बृहस्पतिः । वनस्पतिवत्सु टरौ । वाचस्पतये । 'सावेकाचः' इति षष्ठ्या उदात्तत्वम्, 'षष्ठ्याः पतिपुत्र' इति सहितायां सत्वम् । 'षष्ठीयुक्तच्छन्दसि वा' इति पत्युर्घित्वम् ।
For Private And Personal Use Only