________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु: १..]
भभास्करभाष्योपैता.
155
वाचस्पतये नैवारं चरुमिन्द्राय ज्येष्ठार्य पुरोडाशमेकादशकपालं महावीहीणां मित्राय सत्यायाम्बानी चरुं वरुणाय धर्मपतये यवमय चरु५
सविता त्वा प्रसवाना सुवतामनैवारम् । चरुम् । इन्द्राय । ज्येष्ठाय । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । महावीहीणामिति महा-व्रीहीणाम् । मित्राय । सत्यार्य । आम्बानाम् । चरुम् । वर्षणाय । धर्मपतय इति धर्म-पतये । यवमयमिति यव-मयम् । चुरुम् । सविता । त्वा । प्रसवानामिति प्र-सवानाम् । सुवताम् । अग्निः । गृहप॑तीनामिनीवाराश्शुष्कजलाशयोत्थिताः । ज्येष्ठाय प्रशस्यतमाय । महाव्रीहयश्शालय इति केचित् । स्वयं विशीर्णव्रीहिभ्यस्स्वयमुत्पन्ना व्रीहय · इत्यन्ये । सत्यस्वरूपाय मित्राय* । धर्मपतिः धर्मस्य पाता । पूर्ववत्स्वरः । यवमयं 'द्वयचश्छन्दास' मयट् ॥
अथ पुरोडाशस्विष्टकृतः पुरस्तात् ब्रह्मा यजमानस्य हस्तं गृह्णाति-सवितेत्यादि ॥ अत्र प्रसवस्य - प्राधान्यात् तृतीयस्सविता प्रथम आसीत् । सर्वत्र तादर्थे चतुर्थ्याष्षष्ठी । प्रसवानां प्रसवार्थ सर्वासु प्रवृत्तिष्वनुज्ञानार्थ सविता त्वां सुवतां प्रेरयतु । षू प्रेरणे,
*आम्बाः धान्य विशेषाः इति माधवीयम्.
For Private And Personal Use Only