________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- भनु. ३.] भभास्करभाष्योपेता.
113 mmmmmmmmmmmmmmmmmmmmmmm
ऐन्द्राममेकादशकपालं मारुतीमामिक्षा वारुणीमामिक्षा कायमेक
कपालं प्रघास्यान हवामहे मरुतो 'ऐन्द्राग्नमित्यैन्द्र-अ॒ग्नम् । एकादशकपालमित्येकादश-कपालम् । मारुतीम् । आमिक्षाम् । वारुणीम् । आमिक्षाम् । कायम् । एककपालमित्येक-कपालम् । प्रघास्यानिति प्र-पास्यान् । हवामहे । मरुतः । यज्ञाहस इति यज्ञ-वाहसः।
'अथ वरुणप्रघासहवींषि विदधाति—ऐन्द्राग्नमित्यादि ॥ एतानि चत्वारि हवींषि पञ्चसञ्चरातिरिक्तानि । 'एतद्ब्राह्मणान्येव पञ्च हवींषि । अथैष ऐन्द्रानो भवति'* इत्यादि ब्राह्मणम् । तेन सञ्चरैस्सह नव भवन्ति । को देवता अस्य कायम् । 'कस्येत्' इतीत्वम् । कः प्रजापतिः ॥
गृहीतकरम्भपात्रां पत्नीमुदानयित्वा वाचयति प्रतिप्रस्थाताप्रघास्यानिति । इयं गायत्री ॥ पूर्वपदलोपोत्र द्रष्टव्यः । यथा-- देवदत्तो दत्तः, सत्यभामा भामेति । एवं वरुणप्रघासाः प्रघासाः ; तत्र भवास्तेषां सम्बन्धिनो मरुतः प्रघास्याः । 'भवे छन्दसि' इति यः । मरुद्विशेषा वा प्रघास्यास्तान् हवामहे आह्वयामः यजामहे. वा । 'बहुलं छन्दसि' इति सम्प्रसारणम् । [यज्ञं वहन्तीति यज्ञवाहसः] 'वहिहाधाञ्भ्यश्छन्दसि' इति विधीयमानोसुन् 'गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति कारकपूर्वादपि भवति, णिदिति
*बा. १-६-४.
For Private And Personal Use Only