SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 356 तैत्तिरीयसंहिता का.१. प्र.६ वज पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्र महयन्तो अभैरवर्धय॑नहये हन्तवा उं । वृष्णे यत्ते वृषणो अर्कमर्चापुरुहूत । द्युमन्तमिति यु-मन्तम् । ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन्न् । अर्हये । हन्तवै । उ । वृष्णे । यत् । ते । वृषणः । अर्कम् । यथा योग्यो भवति तथा संस्कुर्वन्तु । यहा--अश्वाय व्याप्तिमते तुभ्यं यथा पर्याप्तो भवति त्वष्टा देवानां शिल्पी वजं तक्षतु तीक्ष्णीकरोतु । कीदृशम् ? घुमन्तं दीप्तिमन्तम् । किञ्चब्रह्माणः ब्राह्मणाश्च त्वामिन्द्रमीश्वरं अर्मन्त्रैः हविर्लक्षणैरन्नैर्वा महयन्तः पूजयन्तः अवर्धयन् वर्धयन्तु यशसा । किमर्थं ? अहये अघाय अहिंसनाय आगत्य हन्तीत्यहिस्सर्पादिः । 'आङि गृहनिभ्यां ह्रस्वश्च' इतीण्प्रत्ययः । कणि चतुर्थी । हन्तवै हन्तुम् । 'तुमर्थे सेसेन्' इति तवैप्रत्ययः । 'अन्तश्च तवै युगपत् ' इत्याद्यन्तयोरुदात्तत्वम् । उः पादपूरणे । त्वं चास्माकं महायज्ञमुपनयति ॥ तत्रैव याज्या-वृष्ण इति त्रिष्टुप् ॥ हे इन्द्र ते तुभ्यं वृष्णे वर्षित्रे अभिमतदात्रे । षष्ठ्यर्थे चतुर्थी । तव वर्षितुः अर्कमर्चनीयामाज्ञां अर्चनीयं वा ते तव यागम_नर्चयन्ति पूजयन्ति। लेट्याडागमः । के ? वृषणः ग्रावाणः वर्षितारो मेघाः वृष्टिं कुर्वन्तस्तवार्कमर्चयन्ति मेघा इत्यर्थः । ‘वा षपूर्वस्य निगमे' इति दीर्घाभावः । अदितिः पृथिवी च सजोषाः समानप्रीतिः त्वया For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy