________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
354
तैत्तिरीयसंहिता
[का.१. प्र.६
नु शुक्रं पुरुहूतमिन्द्र स्वस्ति नो मघवा धात्विन्द्रः । मा ते अस्याम्
॥५०॥ सहसावन्पर्रिष्टावघार्य भूम पुरु-हूतम् । इन्द्रम् । स्वस्ति । नः । मघवेति मघ-वा । धातु । इन्द्रः।"मा । ते । अस्याम् ॥५०॥ सहसावन्निति सहसा-वन्न् । परिष्टौ । अघार्य ।
लुक् , पूर्ववत्सम्प्रसारणम् । नु इति पादपूरणे । स मघवा प्रशस्तैर्धनैः अन्नादिभिर्हविरादिभिश्च तहान् अतश्चेन्द्रपदाभिधानाहः नोस्मभ्यं स्वस्ति अविनाशं धातु ददातु । शपो लुक् । 'मघवा बहुलम् ' इति निपात्यते । 'इत्थम्भूतेन कृतमिति च' इति पुरुहूतशब्दोन्तोदात्तः । यहा-पुरुषु स्थानेषु हूतः पुरुहूतः । 'तृतीया कर्मणि' इति प्राप्तयभावात् रुदुत्तरपदप्रकृतिस्वरत्वमेव निपात्यते । अत्र पुनःपुनः इन्द्रोक्तिरस्माकं सर्वार्थेषु त्वमेव शरणं नान्य इत्यादरसूचनार्था ॥
"तत्रैव याज्या-मा ते अस्यामिति त्रिष्टुप् ॥ हे सहसावन् बलवन् इन्द्र । सह एव सहसं बलं तद्वान् । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । यहा-अवतुप्रत्ययश्छान्दसः - ते तवास्यां परिष्टौ परितस्सर्वतस्सर्वस्यामिष्टौ । छान्दसं ह्रस्वत्वम्, शकन्ध्वादित्वाद्वा पररूपत्वम् । अघाय पापाय कर्मवैगुण्यलक्षणाय मा भूम विगुणकारिणो न भवेम; सर्वेणापि प्रकारेणाविगुणो यज्ञोस्त्विति यावत् । हे हरिवः हरिवन् हरिभिर्हयैस्तद्वान् । 'मतुवसोः' इति रुत्वम् । परादै परदानाय च
For Private And Personal